________________
ટટ
काव्यमाला ।
'प्राणानर्पय सीतां वा गृध्रांस्तर्पय वा द्विजान् । मं भजख रामं वा यथेच्छसि तथाचर ॥'
अत्रार्पणतर्पण भननेषु मानरक्षणप्रमाणेन यथाक्रमं कर्मतया प्राणगृप्रयमानां जीवनरक्षणप्रमाणेन सीताद्विजरामाणां प्राप्तानां यौगपद्यासंभवात्पर्यायेण प्राप्तिः । कर्मणोः क्रियाफलेनैव समानधर्मेणैौपम्यम् । नन्वत्र यथार्पितर्ण्यादिधात्वर्थफलरूपधर्मैक्यात्कर्मणोरौपम्यं गम्यते, तथा 'जीवनं मरणं वा' इत्यादौ सत्तारूपधर्मैक्याज्जीवनमरणयोः कर्त्रीरपि तद्गन्तुं युज्यत इति चेत्, युज्यते, न तु गम्यते । अथ तत्कुतो हेतोः, कवितात्पर्यविरहादिति गृहाण । नात्र मरणं जीवनं च समानमिति कवेरभिप्रेतम् । किं तु 'विषं भुङ्क्ष्व, मा चास्य गृहे भुइथाः' इतिवत् धर्माद्धेतोर्मरणमपि ज्यायः, न तु धर्मत्याग इति निषिद्धगतद्वेषाधिक्यम् । तदर्थं च मरणस्योपात्तत्वादविवक्षिताधिकरणतया औपम्यस्यानिष्पत्तिरेव क्वचिलुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकारः । यथा भगवद्गीतासु 'हतो वा प्राप्स्यसि खर्गं जित्वा वा भोक्ष्यसे महीम् ' अत्र महीभो - गखर्गप्रायोरुत्तमत्वेनौपम्यं विवक्षितम् । तथा च धात्वर्थयोरयं विकल्प इत्यके । आख्यातार्थयोरित्यपरे । सर्वथैव न महीस्वर्गयोरिति स्थितम् । तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यम् । कर्तृरूपसाधारणधर्ममादायौपम्यस्यात्र सुन्दरस्यानिष्पत्तेः । अन्यथा 'हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्' इत्यत्राप्यौपम्यप्रत्ययापत्तेः । यत्तु - “भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये ।
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' अत्र विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणश्लिष्टत्वम्" इत्यलंकारसर्वस्वकृतोक्तम् । तच्चिन्त्यम् । भवार्तिशमने तनुनेत्रद्वन्द्वयोर्द्वयोरपि युगपत्कर्तृत्वे विरोधाभावाद्विकल्पानुत्थानात् । 'विरोधे विकल्पः' इति हि