Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 494
________________ ४७८ काव्यमाला। • तस्मादन्वयिसमसंख्यपदार्थज्ञानस्य यथासंख्यान्वयबोधत्वं कार्यतावच्छेदकं वाच्यम् । एवं च 'कीर्तिप्रतापौ' इत्यत्र च यथाश्रुतानां यथासंख्यान्वयबोधो बाधनिश्चयपराहत इति मुख्यार्थहतिसद्भावात्क्रमभङ्गस्य दोषत्वसाम्राज्यम् । नन्वन्वयिसमसंख्यपदार्थानां यदि यथासंख्यान्वयबोधो व्युत्पत्तिसिद्धस्तदा 'यथासंख्यमनुदेशः समानाम्' इति सूत्रं व्यर्थं स्यात् । तदुदाहरणेषु 'लोमादिपामादिपिच्छादिभ्यः शनेलचः' इत्यादिषु लौकिकसामग्रीबलादेव यथासंख्यान्वयबोधोपपत्तेयोग्यतामात्रबलात् । तथा बोधोपपादकमते तु शास्त्रमात्रचक्षुष्कैः प्रकृतिविशेषप्रत्ययविशेषसंबन्धरूपाय योग्यताया अज्ञानात्तेषां यथासंख्यान्वयबोधार्थ 'यथासंख्यं' इति सूत्रमिति चेत् , न । ममापि प्रागुक्तव्युत्पत्तिरहितानां तादृशबोधार्थ सूत्रसार्थक्यात्" इत्याहुः । इदं तु बोध्यम्--यथासंख्यान्वयबोधो यथातथास्तु नाम । नात्रागृह्णीमः । यथासंख्यमलंकारपदवीमेव तावत्कथमारोढुं प्रभवतीति तु विचारणीयम् । नरसिंल्लोकसिद्ध कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोर्लेशतोऽप्युपलब्धिरस्ति । येनालंकारव्यपदेशो मनागपि स्थाने स्यात् । अतोऽऽपक्रमत्वरूपदोषाभाव एव यथासंख्यम् । एवं चोद्धटमतानुयायिनामुक्तयः कूटकार्षापणवदरमणीया एव । एतेन यथासंख्यमेव क्रमालंकारसंज्ञया व्यवहरतो वामनस्यापि गिरो व्याख्याताः इति तु नव्याः । इति रसगङ्गाधरे यथासंख्यप्रकरणम् । अथ पर्यायःक्रमेणानेकाधिकरणकमेकमाधेयमेकः पर्यायः । क्रमेणानेकाधेयकमेकमधिकरणमपरः॥ स्थाने युक्तः । नव्या इति । वस्तुतस्तु यथासंख्यसूत्रबलात्पाणिनीयप्रयोगे पार्छिकतयान्वयबोधे द्वन्द्वादेः साधुलेऽपि नान्यत्र साधुलम् । किं तु समुदितान्वयबोधमात्र एवेति तदभिप्रायकास्ते प्रयोगा असाधव एव । अलंकारस्तु द्वितीयरीत्या व्यस्ते चरितार्थ इति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशे यथासंख्यप्रकरणम् ॥ .

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552