Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 495
________________ रसगङ्गाधरः । ४७९ एतदन्यान्यत्वं च सामान्यलक्षणम् । न तु योगार्थमात्रम् । अतिप्रसक्तेः । 'परावनुपात्यय इणः' इति पाणिनिस्मृत्या अनुपात्ययमात्रस्य धनुपाधित्वेनोक्तेः । नाप्यन्यत् । अन्यतरत्वाघटितस्य निर्वक्तुमशक्यत्वात् । अत्राद्यलक्षणे प्रागुक्तविशेषालंकारद्वितीय भेदेऽतिप्रसङ्गवारणाय क्रमेणेति । तत्र चाधेयस्य युगपदनेकाधारसंबन्धान्नातिप्रसङ्गः । द्वितीयलक्षणे वक्ष्यमाणसमुच्चयालंकारातिव्याप्तिवारणाय तदिति विवेकः । उदाहरणम् - ‘आयाता कमलासनस्य भवनाद्द्रष्टुं त्रिलोकीतलं गीर्वाणेषु दिनानि कानिचिदथो नीत्वा पुनः कौतुकात् । भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥' अत्र प्रथमचरणगतमधिकरणमार्थम् । विश्लेषावधिपञ्चम्यां विश्लेषस्योपश्लेषमन्तरेणासिज्या औपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् । कमलासनस्य भवने स्थित्वा आयातेति ल्यब्लोपपञ्चम्यामपि ल्यबन्तार्थक्रियाधिकरणे पञ्चम्या लाक्षणिकत्वादवाच्यतैव । 'ल्यब्लोपे कर्मण्यधिकरणे च ' इति वार्तिकस्य निरूढलक्षणासमर्पकतेति राद्धान्तात् । इतरचरणत्रयगतं तु शाब्दम् । यथा वा ‘मकरालयस्य कुक्षौ स्थित्वा सदनेऽमृताशिनां च चिरम् । संप्रति निर्दोषे ते राजन्वदनाम्बुजे सुधा वसति ॥' पूर्वमवरोहः इह त्वारोहः पूर्वपूर्वत्यागेऽरुचि बीजोपादानं चेति विशेषः । अपरः पर्यायो यथा— 'विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया दुदश्चच्चाञ्चल्यं तदनु परितः स्फारितरुचि । गुरूणां संघाते सपदि मयि याते समजनि त्रपाघूर्णत्तारं नयनयुगमिन्दीवरदृशः ॥' अत्र क्वचिदनपावृते स्थलविशेषे गुरुशुश्रूषमाणायाश्चिरप्रोषितमसंभावितागमनं प्रियमकस्मादालोकितवत्याः कस्याश्चिन्नयनयुगरूप एकस्मिनधिकरणे विशेषणीभूतानां स्तिमितत्वादीनामाधेयानां युगपदसंभवात्कारणक्रमवशाच्च क्रमिकत्वम् । यथा वा

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552