Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 497
________________ रसगङ्गाधरः । ४८१ इत्यत्रापि ं । नापि सारः । उत्तरोत्तरस्योत्कर्षापकर्षयोरभावात् । तस्मादेवमादौ शुद्धक्रमालंकारोऽतिरिक्त इत्यप्याहुः । इहान्यदप्यवधेयम् — यत्राधाराधेयतत्संबन्धक्रमेषु कचिदपि कविकल्पनापेक्षा तत्रैवायमलंकारः । यत्र तु सर्वांशे लोकसिद्धत्वं न तत्र कश्विदलंकारः । अत एव ' श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्' इति काव्यप्रकाशकृता, 'प्रागर्णवस्य हृदये . वृषलक्ष्मणोsथ कण्ठेऽधुना वससि वाचि पुनः खलानाम्' इति सर्वखकृता च निदर्शितम् । अत्रोभयत्राप्याधारभेदाद्भिन्न आधेयः कविना एकताध्यवसानेनैकीकृतः । अस्मद्दत्तोदाहरणेषु तु क्रमोऽपि कल्पितः । नहि ब्रह्मलोकस्थया देवतया पयोधिस्थया सुघया च वाचो वाङ्माधुर्यस्य चामेदो लोकसिद्धस्तादृशक्रमो वा । एवं स्थिते 'अधुना पुलिनं तत्र यत्र स्रोतः पुरा - भवत्' इति कुवलयानन्दगतमुदाहरणं 'यत्र पूर्वं घटस्तत्राधुना पटः' इति वाक्यवल्लौकिकोक्तिमात्रमित्यनुदाहार्यमेव । इति रसगङ्गाधरे पर्याय प्रकरणम् । • अथ परिवृत्ति:परकीययत्किंचिद्वस्त्वादानविशिष्टं परस्मै स्वकीययत्किंचिद्वस्तुसमर्पणं परिवृत्तिः ॥ क्रय इति यावत् । सा च तावद्विविधा – समपरिवृत्तिर्विषमपरिवृत्तिश्चेति । समपरिवृत्तिरपि द्विविधा — उत्तमैरुत्तमानां न्यूनैर्न्यनानां चेति । विषमपरिवृत्तिरपि तथा — उत्तमैर्न्यनानां न्यूनैरुत्तमानां चेति । क्रमेणोदाहरणानि - ‘अङ्गानि दत्त्वा हेमाङ्गि प्राणान्क्रीणासि चेन्नृणाम् । युक्तमेतन्न तु पुनर्लोचनाम्बुरुहद्वयम् ॥' अत्र पूर्वार्ध एव समपरिवृत्तिः, उत्तरार्धे तु विषमैव । त्रापि नोकरीत्या पर्याय इति शेषः । लौकिकोक्तिमात्रमिति । अत्रेदं चिन्त्यम् - गभीरजलस्य स्रोतस्त्वेनाल्पजलविद्यमानतायां सुशकगमनलेन कविना पुलिनत्वारोपे उदाहरणत्वं सम्यगेव ॥ इति रसगङ्गाधरमर्मप्रकाशे पर्यायप्रकरणम् ॥ प्राग्वदाह - अथेति । तथा द्विधा । बिम्बफलं तत्सदृशम् । प्रविकचेति । प्रवि ४१ रस०

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552