________________
४७८
काव्यमाला।
• तस्मादन्वयिसमसंख्यपदार्थज्ञानस्य यथासंख्यान्वयबोधत्वं कार्यतावच्छेदकं वाच्यम् । एवं च 'कीर्तिप्रतापौ' इत्यत्र च यथाश्रुतानां यथासंख्यान्वयबोधो बाधनिश्चयपराहत इति मुख्यार्थहतिसद्भावात्क्रमभङ्गस्य दोषत्वसाम्राज्यम् । नन्वन्वयिसमसंख्यपदार्थानां यदि यथासंख्यान्वयबोधो व्युत्पत्तिसिद्धस्तदा 'यथासंख्यमनुदेशः समानाम्' इति सूत्रं व्यर्थं स्यात् । तदुदाहरणेषु 'लोमादिपामादिपिच्छादिभ्यः शनेलचः' इत्यादिषु लौकिकसामग्रीबलादेव यथासंख्यान्वयबोधोपपत्तेयोग्यतामात्रबलात् । तथा बोधोपपादकमते तु शास्त्रमात्रचक्षुष्कैः प्रकृतिविशेषप्रत्ययविशेषसंबन्धरूपाय योग्यताया अज्ञानात्तेषां यथासंख्यान्वयबोधार्थ 'यथासंख्यं' इति सूत्रमिति चेत् , न । ममापि प्रागुक्तव्युत्पत्तिरहितानां तादृशबोधार्थ सूत्रसार्थक्यात्" इत्याहुः । इदं तु बोध्यम्--यथासंख्यान्वयबोधो यथातथास्तु नाम । नात्रागृह्णीमः । यथासंख्यमलंकारपदवीमेव तावत्कथमारोढुं प्रभवतीति तु विचारणीयम् । नरसिंल्लोकसिद्ध कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोर्लेशतोऽप्युपलब्धिरस्ति । येनालंकारव्यपदेशो मनागपि स्थाने स्यात् । अतोऽऽपक्रमत्वरूपदोषाभाव एव यथासंख्यम् । एवं चोद्धटमतानुयायिनामुक्तयः कूटकार्षापणवदरमणीया एव । एतेन यथासंख्यमेव क्रमालंकारसंज्ञया व्यवहरतो वामनस्यापि गिरो व्याख्याताः इति तु नव्याः ।
इति रसगङ्गाधरे यथासंख्यप्रकरणम् ।
अथ पर्यायःक्रमेणानेकाधिकरणकमेकमाधेयमेकः पर्यायः । क्रमेणानेकाधेयकमेकमधिकरणमपरः॥
स्थाने युक्तः । नव्या इति । वस्तुतस्तु यथासंख्यसूत्रबलात्पाणिनीयप्रयोगे पार्छिकतयान्वयबोधे द्वन्द्वादेः साधुलेऽपि नान्यत्र साधुलम् । किं तु समुदितान्वयबोधमात्र एवेति तदभिप्रायकास्ते प्रयोगा असाधव एव । अलंकारस्तु द्वितीयरीत्या व्यस्ते चरितार्थ इति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशे यथासंख्यप्रकरणम् ॥ .