________________
रसगङ्गाधरः।
१७७ प्रथमस्य प्रथमेनैव द्वितीयस्य द्वितीयेनैवेत्यादि क्रमेण संबन्धे भवतीति । योगार्थ एव लक्षणम् । यथा--.
'यौवनोद्मनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः ।
संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥' ___ अत्र यौवनोद्गमनितान्तशङ्किताः संकुचन्ति, शौर्यबलकान्तिलोभिता विकसन्तीति प्रथमद्वितीयक्रिययोः क्रमेण प्रथमद्वितीयविशेषणावच्छिन्नेन कान्वयः । स च शाब्दः । समासाभावेन शब्दानामप्यन्वयात् । भावसंधिश्चात्र प्रधानम् । यथा वा- ..
__ 'द्रुमपङ्कजविद्वांसः सर्वसंतोषपोषकाः। . . मुधैव हन्त हन्यन्ते कुठारहिमदुर्जनैः ॥' ... इह दीपकानुप्राणकम् । यथा वा
'वृन्दापितृगहनचरौ कुसुमायुधजननहननशक्तिधरौ । __ अरिशूललाञ्छितकरौ भीतिं मे हरिहरौ हरताम् ॥' इहोभयत्रार्थः । पूर्व समासेन समासान्वयेऽवयवानामन्वयस्य पार्णिकत्वात् । इत्यादिरपरिमितोऽस्य विषयः । अथ क्रमेणान्वयबोधे किं नियामकम् । अत्र केचित्-"योग्यता ज्ञानमेव नियामकम् । तथाहि 'वृन्दापितृगहनचरौ' इत्यत्र हरौ श्मशानचारित्वस्य हरे वृन्दावनचारित्वस्य च बाधितत्वादन्वयबोधाभावे हरौ वृन्दावनचारित्वस्य हरे श्मशानचा- . रित्वस्य च योग्यत्वादन्वयबोधो जायमानः क्रमिकान्वयबोधः पर्यवस्यति । एवमन्यत्रापि” इत्याहुः । अन्ये तु-"योग्यताज्ञानस्य नियामकत्वे क्रमभङ्गस्य दोषता न स्यात् । 'कीर्तिप्रतापौ भातस्ते सूर्याचन्द्रमसाविव' इत्यादौ कीतौं चन्द्रसादृश्यस्य प्रतापे सूर्यसादृश्यस्य च व्युत्क्रमोक्तस्यापि योग्यतावशादेव प्रतीत्युपपत्तेः । नहि क्रमिकमेव योग्यम् , अपक्रममयोग्यम् , येन तव मुख्यार्थहतिः स्यात् । भवति चानुभवसिद्धा सा ।
प्राग्वदाह-अथेति । संबन्धे सतीति शेषः । पूर्वतो विशेषमाह-इहेति । वृन्दा तदाख्यं वनम् । पितृगहनं श्मशानम् । अरिः सुदर्शनः । आर्थविषये शङ्कते-अथेति ।