________________
१७६
काव्यमाला।
- पूर्वत्र लिङ्गलिङ्गिनोः शुद्धत्वम् , इह तु रूपकानुप्राणितत्वमिति विशेषः। कविप्रतिभोल्लिखितत्वं पुनः स्फुटमेव । इह यत्र लिङ्गलिङ्गिनोः सत्त्वं तत्र मन्ये शङ्के अवैमि जाने इत्यादिपदानामनुमितिबोधकत्वम् , यत्र तु साह. श्यादिनिमित्तसद्भावस्तत्रोत्प्रेक्षाबोधकतेति विवेकः । तेन
'मन्मथामात्यमायान्तमहं मन्ये महामहम् ।
चक्षुश्चमत्कृतिं धत्ते यदहो किल कोकिलः ॥' इत्यादावनुमैव, नोत्प्रेक्षा।
अत्रेदं बोध्यम्-मन्ये इत्यादिवाचकपदोपादाने वाच्यमनुमानम् । यथानन्तरोक्ते । वक्तिकथयतीत्यादिलक्षकपदोपादाने लक्ष्यम् । यथा 'कोकाः सशोकाः' इत्यादौ । तदन्यतरानुपादाने साध्याक्षिप्तायामनुमितौ प्रतीयमानम् । यथा 'अम्लायन्–' इति पद्ये 'तद्भावी तव देव संप्रति महोमार्तण्डबिम्बोदयः' इति चतुर्थचरणनिर्माणे । साध्यस्याप्यनुपादाने लिङ्गमात्रोपादानेन यत्रागूर्यमाणं साध्यं तत्र ध्वन्यमानम् । यथा
'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् ।
आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' __ अत्र शरदागमस्य साध्यस्यानुमानं ध्वन्यते । एवमेषा व्यवस्था न प्रागुक्ते करणमनुमानमिति नये संगच्छते । करणस्य ज्ञायमानलिङ्गत्वपक्षे वाच्यतायाः केवलाया आपत्तेः । लिङ्गज्ञानत्वपक्षे वाच्यत्वलक्ष्यत्वयोरनापत्तेः । अतोऽनुमितिरेवानुमानम् । तस्याश्च वाच्यत्वलक्ष्यत्वप्रतीयमानत्वध्वन्यमानत्वानां साम्राज्यम् । ल्युटश्च करण इव भावेऽपीति ।
इति रसगङ्गाधरेऽनुमानप्रकरणम् । अथ यथासंख्यम्उपदेशक्रमेणार्थानां संबन्धो यथासंख्यम् । पदार्थानतिवृत्तिरूपे यथार्थेऽव्ययीभावः । संख्याया . अनतिवृत्तिश्च
रादिसाधारणम् । शङ्कते-वक्ष्येति । इह अनुमानालंकारे। पुनस्वर्थे । उभयत्रेति भावः । भावेऽपीति। विधिरिति शेषः ॥ इति रसगङ्गाधरमर्मप्रकाशेऽनुमानप्रकरणम् ॥