________________
रसगङ्गाधरः ।
लंकारस्त्वयापि वाच्यः । एवं चार्थान्तरन्यासस्य तस्य चार्थान्तरन्यासप्रभेदयोश्च संसृष्ट्यैवोदाहरणानां त्वदुक्तानां गतार्थत्वे नवीनालंकारस्वीकारानौचित्यात् । अन्यथोपमादिप्रभेदानामनुग्राह्यानुग्राहकतया संनिवेशेऽलंकारान्तरकल्पनापत्तेः । 'वीक्ष्य रामं घनश्यामं ननृतुः शिखिनो वने' इत्यत्राप्युपमापोषितायां भ्रान्तावलंकारान्तरत्वप्रसङ्गाच्च ।
इति रसगङ्गाधरेऽर्थान्तरन्यासप्रकरणम् ।
४७५
अथानुमानालंकारःअनुमितिकरणमनुमानम् ॥
अनुमितिश्चानुमितित्ववती । अनुमितित्वं चानुमिनोमीति मानससाक्षात्कारसाक्षिको जातिविशेषः । व्याप्तिप्रकारकपक्षधर्मतानिश्चयजन्यज्ञानं वानुमितिः । तस्याश्च करणं व्याप्तिप्रकारकलिङ्गनिश्चय इत्येके । व्याप्यत्वेन निश्चीयमानं लिङ्गमित्यपरे । इदं च साधारणमनुमानम् । अस्य च कविप्रतिभोल्लिखितत्वेन चमत्कारित्वे काव्यालंकारता । यथा
'तस्मिन्मणिव्रातहतान्धकारे पुरे निशालोपविधानदक्षे ।
सद्यो वियुक्ता दिवसावसानं कोकाः सशोकाः कथयन्ति नित्यम् ॥' अत्र कथनं स्फुटबोधः । स चानुमित्यात्मकः कोकवियोगरूपस्य लिङ्गस्य व्याप्यत्वेन निश्चयात्करणादुत्पद्यते । तत्र चान्धकारविशेषाभावस्य तत्सामान्याभावत्वेनाध्यवसानेन सति निशालोप विधानदक्षतासिद्धी दिवसावसानसिद्ध्यभावप्रयुक्ता दिवसावसानानुमितिरित्यस्ति कविप्रतिभोल्लिखितत्वम् । वक्ष्यमाणमुन्मीलितमिति न मन्तव्यम् । तस्याप्यनुमानताया एव स्थापयिष्यमाणत्वात् । यथा वा–
‘अम्लायन्यदंरातिकैरवकुलान्यग्लासिषुः सत्वरं
दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः । सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्ला समातन्वते तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ॥'
प्रभेदयोश्च संसृष्ट्यैवेति । शृङ्खलकृतचमत्कारस्याधिकस्य सत्त्वाच्चिन्त्यमिदम् ॥ इति रसगङ्गाधरमर्मप्रकाशेऽर्थान्तरन्यासप्रकरणम् ॥
प्राग्वदाह – अथेति । विनिगमनाविरहादाह - व्याप्तीति । साधारणं तत्रान्त