________________
७४
काव्यमाला।
: अत्र कामुकयोः प्रक्रान्ते वृत्तान्तेन विशेषेण दातृयाचकवृत्तान्तोऽप्रस्तुतः सामान्यात्मा समर्थ्यते । - यत्तु 'कारणेन कार्यस्य कार्येण वा कारणस्य समर्थनम्' इत्यपि भेदद्वयमर्थान्तरन्यासस्यालंकारसर्वखकारो न्यरूपयत्, तन्न । तस्य काव्यलिङ्गविषयत्वात् । अन्यथा 'वपुःप्रादुर्भावात्-' इति सकलालंकारिकसिद्धं काव्यलिङ्गोदाहरणमसंगतं स्यात् । अपरार्धे वाक्यार्थद्वयस्य कारणत्वेनार्थान्तरन्यासोदाहरणतापत्तेः । यदपि विमर्शिनीकार आह—“विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यार्थस्योपपादनापेक्षत्वं तत्रार्थान्तरन्यासः । यत्र पुनः खतःसिद्धस्यैव विशदीकरणार्थं तदेकदेशभूतो विशेष उपादीयते तत्रोदाहरणालंकारः । यथा 'निमज्जतीन्दोः किरणेष्विवाङ्कः' इत्यत्र" इति । तदपि न ।
'निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । __ पश्यति पित्तोपहतः शशिशुभं शङ्खमपि पीतम् ॥ इति प्राचीनसंमतोदाहरणे सामान्यवाक्यार्थस्यासंदिग्धत्वेनोपपादनानपेक्षत्वात् । नहि दोषेण भ्रमो भवतीत्यर्थे पामरस्याप्यस्ति संशयः, येनोपपादनापेक्षा स्यात् । अस्त्येव तर्कस्थल इवाहार्योऽत्रापि संशय इति चेत् , त्वदुक्तोदाहरणालंकारेऽपि तस्य साम्राज्यात् । तस्मादस्मदुक्तैव व्यवस्थानुसतव्या ।
कुवलयानन्दकारस्तु-"यस्मिन्विशेषसामान्यविशेषाः स विकखरः" 'अनन्तरत्नप्रभवस्य-' इत्यादि।
'कर्णारंतुदमन्तरेण रणितं गाहख काक खयं
माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम् । धन्यानि स्थलसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां
नेपालक्षितिपालभालतिलके पक्के न शङ्केत कः ॥' पूर्वमुपमारीत्या इह त्वर्थान्तरन्यासरीत्या विकखरालंकारः” इत्याह । तदपि तुच्छम् । 'उपकारमेव कुरुते' इत्युदाहरणालंकारोक्तास्मदुदाहरणे प्राथमिकविशेषस्याभावात्त्वदुक्तो विकखरालंकारो न संभवतीति कश्चिद