Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 491
________________ रसगङ्गाधरः । लंकारस्त्वयापि वाच्यः । एवं चार्थान्तरन्यासस्य तस्य चार्थान्तरन्यासप्रभेदयोश्च संसृष्ट्यैवोदाहरणानां त्वदुक्तानां गतार्थत्वे नवीनालंकारस्वीकारानौचित्यात् । अन्यथोपमादिप्रभेदानामनुग्राह्यानुग्राहकतया संनिवेशेऽलंकारान्तरकल्पनापत्तेः । 'वीक्ष्य रामं घनश्यामं ननृतुः शिखिनो वने' इत्यत्राप्युपमापोषितायां भ्रान्तावलंकारान्तरत्वप्रसङ्गाच्च । इति रसगङ्गाधरेऽर्थान्तरन्यासप्रकरणम् । ४७५ अथानुमानालंकारःअनुमितिकरणमनुमानम् ॥ अनुमितिश्चानुमितित्ववती । अनुमितित्वं चानुमिनोमीति मानससाक्षात्कारसाक्षिको जातिविशेषः । व्याप्तिप्रकारकपक्षधर्मतानिश्चयजन्यज्ञानं वानुमितिः । तस्याश्च करणं व्याप्तिप्रकारकलिङ्गनिश्चय इत्येके । व्याप्यत्वेन निश्चीयमानं लिङ्गमित्यपरे । इदं च साधारणमनुमानम् । अस्य च कविप्रतिभोल्लिखितत्वेन चमत्कारित्वे काव्यालंकारता । यथा 'तस्मिन्मणिव्रातहतान्धकारे पुरे निशालोपविधानदक्षे । सद्यो वियुक्ता दिवसावसानं कोकाः सशोकाः कथयन्ति नित्यम् ॥' अत्र कथनं स्फुटबोधः । स चानुमित्यात्मकः कोकवियोगरूपस्य लिङ्गस्य व्याप्यत्वेन निश्चयात्करणादुत्पद्यते । तत्र चान्धकारविशेषाभावस्य तत्सामान्याभावत्वेनाध्यवसानेन सति निशालोप विधानदक्षतासिद्धी दिवसावसानसिद्ध्यभावप्रयुक्ता दिवसावसानानुमितिरित्यस्ति कविप्रतिभोल्लिखितत्वम् । वक्ष्यमाणमुन्मीलितमिति न मन्तव्यम् । तस्याप्यनुमानताया एव स्थापयिष्यमाणत्वात् । यथा वा– ‘अम्लायन्यदंरातिकैरवकुलान्यग्लासिषुः सत्वरं दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः । सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्ला समातन्वते तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ॥' प्रभेदयोश्च संसृष्ट्यैवेति । शृङ्खलकृतचमत्कारस्याधिकस्य सत्त्वाच्चिन्त्यमिदम् ॥ इति रसगङ्गाधरमर्मप्रकाशेऽर्थान्तरन्यासप्रकरणम् ॥ प्राग्वदाह – अथेति । विनिगमनाविरहादाह - व्याप्तीति । साधारणं तत्रान्त

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552