________________
काव्यमाला।
कचिद्गुणीभूतं वचित्प्रधानमित्यन्यदेतत् । साधारण्येन विशेषणसाम्यमूलायाः समासोक्तेस्तु 'अन्धेन पातभीत्या संचरता-' इत्यादिः प्रागस्माभिरुदाहृतो विषय इति न निरवकाशत्वम् । तत्र ह्यसाधारणधर्मारोपमन्तरेण साधारणविशेषणमहिम्नवाप्रकृतप्रतीतेः । एतेन 'तदेवं साधारण्येन समासोक्तविशेषणसाम्येऽप्यप्रकृतसंबन्धिधर्मकार्यसमारोपमन्तरेण तव्यवहारप्रतीतिर्न भवति' इति विमर्शिनीकृता यदुक्तं तन्निरस्तम् । तस्मादेवं संभवति विषयविभागे 'तन्वी मनोहरा-' इत्यत्र समासोक्तिवचनमहृद्यम् । यदपि “औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति । यथा__'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ।' अत्र हरिणेक्षणामात्रवृत्तेः सुवेषत्वस्य विशेषणस्य महिम्ना दन्तप्रभासदृशानि पुष्पाणीत्यादि योजनां विहाय दन्तप्रभाः पुष्पाणीवेत्याधुपमितसमासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां वृत्त्यन्तरेण त्य. ताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिवृन्दैरुपमेयैराक्षिप्ताया लतायाः प्रत्ययात्तव्यवहारारोपः । एवं सुवेषेत्यपहाय परीतेति कृते उपमारूपकसाधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकराश्रयेण कृते योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीतेः समासोक्तिरेव । समासभेदेनार्थभेदेऽपि शब्दैक्यमादाय श्लिष्टमूलायामिव विशेषणसाम्यं बोध्यम् । आदावते वा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांशे आक्षिप्तलतातादात्म्यकेनैकदेशविवर्तिरूपकेणैवाप्रकृतार्थप्रत्ययोपपत्तेर्नार्थः समासोक्तेरत्र" इति तेनैवोक्तम् , तदपि न विचारसहम् । दन्त
व्यवस्थाङ्गीकारे च । उक्तमेव सदृष्टान्तमाह-यथेति । तत्र हि अन्धेनेत्यत्र हि। धर्मकार्येति । धर्मकार्ययोः समारोपमित्यर्थः । अयं तदीय उपसंहारग्रन्थः । उपसंहरति-तस्मादिति । प्रकृतार्थेति । सुवेषवरूपेत्यर्थः । वृत्त्यन्तरेण व्यञ्जनया। योजनाया 'उपमानानि' इति समासरूपायाः । तद्यवहारेति । लताव्यवहारेत्यर्थः । उपमेति । यथासंख्यमन्वयः । पूर्वोक्तरीत्येति । वृत्त्यन्तरेणेत्याधुक्त. रीत्येत्यर्थः । नन्वेवं कथं विशेषणसाम्यमर्थभेदादत आह-समासेति । हरिणेक्षणांशे आक्षिप्तत्वेनाशब्दलादाह-एकदेशेति । अत्र उक्तपद्ये । एवमग्रेऽपि । तेनैव अलंकारसर्वस्वकारेणैव । तुल्ययुक्त्या आह-दन्तप्रभा इति । तथोकं तदा समासो..