________________
रसगङ्गाधरः।
३७९ "तन्वी मनोहरा बाला पुष्पाक्षी पुष्पहासिनी ।
विकासमेति सुगम भवद्दर्शनमात्रतः ।। अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्यां लताव्यवहारप्रतीतिः । तत्र लतैकगामिविकासाख्यधर्मसमारोपः कारणम् । अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचरितो ज्ञेयः" इत्यलंकारसर्वखकार आह, तत्र विचार्यते-नात्र विशेषणसाम्यमात्रेण लतान्यवहारप्रतीतिः, अपि तु लतारूपाप्रकृतासाधारणविकासारोपमहिनेति भवतैवोक्तम् । तथा च विशेषणसाम्यादप्रस्तुतस्य गम्यत्वमिति त्वदुक्तसमासोक्तिलक्षणस्य कथमन्त्र प्रवृत्तिः । न च लक्षणे विशेषणसाम्यमात्रगम्यत्वं न विवक्षितम्, अपि तु विशेषणसाम्यगम्यत्वम् । प्रकृते च विकासस्याप्यधिकस्य गसकत्वम् । न त्वेतावता विशेषणसाम्यस्य गमकताहानिरिति वाच्यम् । श्लेषेऽतिव्याप्त्यापत्तेः । न च विशेषणमात्रसाम्यगम्यत्वं विवक्षितम् । एवं च न श्लेषेऽतिव्याप्तिः । नापि 'तन्वी मनोहरा' इत्यत्र लक्षणस्यावर्तनमिति वाच्यम् । 'तन्वी मनोहरा' इत्यत्र समासोक्तेरेवाभावात् । यत्र साधारणविशेषणमहिम्ना प्रकृतस्य स्फूर्तिस्तत्र समासोक्तिः, यत्र त्वसाधारणमहिना तत्र व्यङ्ग्यरूपकमिति विषयव्यवस्थापनात् । एवं च प्रकृते साधारणविशेषणसत्त्वेऽपि न तन्महिम्ना लतायाः स्फूर्तिः, अपि तु विकासमहिनेति व्यङ्ग्यरूपकमुचितम् । यथा
'चकोरनयनानन्दि कहाराहादकारणम् ।
तमसां कदनं भाति वदनं सुन्दरं तव ॥' इत्यादौ सुन्दरमिति साधारणविशेषणसत्त्वेऽपि रूपकमेव तथेहापि ।
अन्यथा तत्समारोपस्याकारणले । विशेषणेति । तेषामन्यसाधारण्यादिति भावः । कादाचित्कस्य संभवादाह-नियतेति । श्लेषेऽतिव्याप्त्यापत्तेरिति । तत्र विशेष्यस्य श्लिष्टत्वेऽपि विशेषणसाम्यस्याक्षतेरिति भावः । विशेषणमात्रेति । मात्रपदेन विशेष्यसाम्यव्यावृत्तिर्न धर्मान्तरविकासादेरिति भावः । न श्लेष इति । तत्र विशेष्यस्यापि श्लिष्टवादिति भावः । समासोकेरेवेति । सर्वखग्रन्थसिद्धान्ताप्रकृतेऽप्रकृतलताप्रतीतावपि क्रियारूपतयवहारस्य कस्यचिदप्रतीते त्र समासोतिरित्यपि बोध्यम् । एतेन यदपीत्याद्यपि सर्वखग्रन्थः परास्त इति दिछ । एवं च उक्त