________________
१७८
काव्यमाला। 'अन्धेन पातमीत्या संचरता विषमविषयेषु ।
दृढमिह मया गृहीता हिमगिरिशृङ्गादुपागता गङ्गा ।' • अत्र गिरिशृङ्गप्रभववेणुयष्टिव्यवहाराभेदेन । कार्यसाधारण्येन यथा
'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता __ स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना ।
क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति . द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ।' कार्यधर्मान्तरयोः संकरेण साधारण्यं यथा
'उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यकृताः __ पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् । गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥' अत्र कण्ठकचितत्वेन कबरीग्रहणादि संकीर्णम् । समासोक्तौ व्यज्यमानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम् । तदुपस्कृतवाच्यस्यैव तु प्राधान्यमित्युक्तम् । तत्र यदि व्यङ्ग्यस्यैव प्राधान्यं स्यात् न वाच्यस्य तदा 'देव त्वां परितः स्तुवन्तु-' इति प्रागुदाहृतपद्ये निन्दाव्याजेन स्तुतौ पर्यवसानं न स्यात् । स्तुतिनिन्दयोः प्रकृताप्रकृतव्यवहाराश्रयत्वादिति ध्येयम् ।
इदानीमेव खण्डितोऽधरो येनेत्यर्थः । अन्धेन चक्षुहीनेन अज्ञानिना च । पातः पतनं नरकपातश्च । विषयेषु देशेषु नायिकादिषु च । दृढमिति क्रियाविशेषणम् । व्यवहारामेदेनेति । गङ्गावृत्तान्तः स्थित इति भावः । कार्येति । कार्यरूपधर्मकृतशुद्धसाधारण्येनेत्यर्थः । देवेति । राजानं प्रति कव्युतिः । भवितासि । अपि तु न । दुराचारसंबन्धित्वात् । तदेवाह-यस्येति । 'न ना कोडो भुजान्तरम् । आशा दिशः । अग. म्यामपि । अमरावतीमपीत्यर्थः । उत्क्षिप्ता इति । ऊर्ध्व क्षिप्ता इत्यर्थः । विवलिता वक्रीकृताः । न्यकृता अधःकृताः। के के न गृह्णन्ति । अपि तु सर्वेऽपीत्यर्थः । अत्र कण्टकचितत्वं कार्योऽन्यधर्मः । रोमाञ्चव्याप्तत्वं कण्टकयुतत्वं च तस्यार्थः । कबर्यादिग्रहणं कार्यरूपो धर्मः । तस्यैव प्रतिपाद्यत्वात् । आदिना पार्श्वद्वयग्रहणादिसंग्रहः । एवं पूर्वोदाहरणेष्वपि यथायथं बोध्यम् । तत्र तयोर्मध्ये । तत्र तद्यवहारप्रतीतौ ।