Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 384
________________ .३६८ काव्यमाला। इत्याद्यप्रस्तुतप्रशंसायामप्रकृतव्यवहारः साक्षादुपात्तत्वाद्विशेष्येणाप्युपस्थापित एवेति न तत्रातिव्याप्तिः । यदि तु जलक्रीडादौ भ्रमरवृत्तान्त एव प्रस्तुतस्तदा भवत्येवेयं समा'सोक्तिः। विशेष्येणापीति । अपिना विशेषणपरिग्रहः । तथा च विशेषणमात्रोपस्थापितखाभावान्नातिप्रसङ्ग इति मात्रपदस्यैवं कृत्य मिति भावः । ननु तर्हि किमिति द्वितीयमिदं दत्तमत आह-यदि त्विति । समासोक्त वप्रस्तुतवृत्तान्तसमारोप एव चारुताहेतुरिति प्राञ्चः। तेषामयमाशयः-अयमेन्द्रीयादो श्लिष्टविशेषणप्रतीतप्रस्तुताप्रस्तुतवृत्तान्तयोः श्लेषभित्तिकामेदाध्यवसायेनाभिन्नयोः प्रस्तुतचन्द्रादिवृत्तिता । तत्र तयोवृत्तान्तयोः परस्परं विशेष्यविशेषणभावे कामचारेऽपि प्रस्तुतवृत्तान्तो विशेष्यः। तद्बोधकबोध्याप्रस्तुतस्तु अमेदेन तद्विषणम् । एवं चाप्रस्तुताभिन्नप्रस्तुतस्य चन्द्रेणान्वयः । तत्र यद्यपि प्रस्तुतस्य खासाधारणधर्मेण चन्द्रेऽन्वययोग्यतास्ति तथाप्यप्रस्तुताभेदमापन्नस्य न सास्तीति तद्पावच्छिन्नस्य तस्याप्रकृते धर्मिण्यारोपः । एवं चाप्रस्तुतव्यवहारसमारोपपदेन प्रस्तुतव्यवहारसमारोपपदेन च प्रस्तुतव्यवहारतादात्म्यापनसमारोप उच्यते । न च तत्तादात्म्यापन्नत्वेऽपि विशेष्यतायाः प्रस्तुते एव सत्त्वे नारोपं विनाप्यन्वययोग्य-/ तेति वाच्यम् । दृगब्जेन वीक्षते इत्यादौ विशेष्यस्य खरूपेणेतरान्वयायोग्यस्येतरतादात्म्यापत्त्या तद्योग्यत्ववत्वतोऽन्वययोग्यस्यापीतरतादात्म्यापत्त्या तदयोग्यत्वस्यापि सत्त्वात् । न च रूपकवत्समासोक्तावपि प्रस्तुतेऽप्रस्तुतरूपसमारोप एव चारुताहे. तुरस्तु । तद्वाचकपदसमभिव्याहाराभावेन तस्यासंभवात् । नचाक्षिप्तनायकादिना आक्षिप्तरूपकं भवतु । 'निरीक्ष्य विद्युन्नयनैः पयोदः' इत्यत्र पयोदे द्रष्टपुरुषरूपकाक्षेपकनिरीक्षणवदाक्षेपकाभावात् । न च विशेषणसाम्यप्रतीताप्रकृतवृत्तान्त एवाक्षेपकोऽस्तु । अप्रस्तुतस्य प्रस्तुते विशेषणतया तस्य प्राधान्याभावेनानाक्षेपकत्वात् । एतेनाक्षेपासंभवेऽपि परनायिकामुखचुम्बनस्य श्लेषमर्यादया प्रतीतस्य प्रकृतधर्मिणि चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन प्रकृतधर्मिणि जारत्वव्यञ्जकता सुवचा । न च चन्द्रे जारखारोपमन्तरेणापि जारव्यवहारारोपसिद्धिरनुपपत्त्यभावान जारत्वं गमयेदिति वाच्यम् । व्यञ्जनाया अनुपपत्तिं विनापि प्रसरात् । 'गतोऽस्तमर्क' इत्यादी तथैव दर्शनात् । अन्यथा अर्थापत्त्या गतार्थत्वेन व्यञ्जनावैयर्थ्यप्रसङ्गादित्यपास्तम् । किं चैवं सति वाच्यार्थबोधोत्तरं तयङ्ग्यप्रतीतिः । सापि न केवलव्यवहारमात्रात् । अपि तु तादृशनायकनायिकासंबन्धविशिष्टव्यवहारज्ञानात् । एवं च वाच्यार्थबोधकालिकचमत्कारबीजमात्रमत्र निरूप्यते इत्यदोषः । अपि च तादृशव्यङ्ग्यस्याधिकचमत्कारकारित्वेन ध्वनिव्यव. हारयोग्यतया नालंकारशरीरघटकता । एवं च समासोक्तस्तादृशध्वन्युपस्कारकतयाधिक

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552