Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 41
________________ ६] कवि-उदयराजविरचितं राजविनोदमहाकाव्यम्। [३.५ उच्चैरङ्कुशतां बिभर्ति बलिना या सर्वदा मौलिषु प्राथक्षितिपालमूर्द्ध[पृ० ७ B]सु पुनर्या चक्रवद् भ्राम्यति । मान्यानां महतां च शेखरपदे मालेव या भ्राजते वीरश्रीमहमूदसाहनृपतेराज्ञा जगद् रक्षति ॥२८॥ मर्यादां न विलङवयन्ति निधयो वारामवारोमय श्चन्द्रार्कावुदयास्तकालनियमं नैवाप्यतिक्रामतः । यस्याज्ञावशतश्चरन्ति परितस्तारा निरालम्बने । सोऽयं श्रीमहमूदसाहमवतात् कर्ता जगत्तारकः ॥२९।। इत्याशीर्वचनपरम्पराः सृजन्ती वाग्देवी विरचितनव्यकाव्यबन्धा । शिष्याय त्रिदशगुरोः पुरोगताय व्याकर्तुं पुनरुदयुङक्त राजचर्याम् ॥३०॥ श्रीमान् साहिमुदप्फरस्समजनि श्रीगूर्जरमापति स्तस्मात् साहिमहम्मदस्समभवत् साहिस्ततोऽहम्मदः । जातस्साहिमहम्मदोऽस्य तनुजो गायासदीनाख्यया ख्यातः श्रीमहमूदसाहिनृपति[पृ० ८ A]र्जीयात् तदीयात्मजः ॥३१॥ ॥ इति श्रीमहाराजाधिराज-जरबक्सपातसाह-श्रीमहमूदसुरत्राणचरित्रे राजविनोदे महाकाव्ये वंशानुसङकीर्तनो नाम द्वितीयः सर्गः ॥ ॥ तृतीयः सर्गः॥ उच्चस्तरां कुञ्जरगजितेन प्रहृष्यमाणो हयहेषितेन । सान्द्रेण नादेन च दुन्दुभीनां प्रबुद्ध्यतेऽसौ समये नरेन्द्रः ॥ १॥ उल्लासयन्त्यो रहसि स्वरेण वीणाक्वणैस्सम्वदतानुरागम् । सौभाग्यवत्योऽस्य विलासगीतैः प्राभातिकं मङ्गलमाचरन्ति ॥२॥ आलोकनीयं घनपक्ष्मलाभ्यां विलोचनाभ्यामलिमञ्जुलाभ्याम् । मुखारविन्दं स्वयमाश्रिताऽस्य प्रबोधलक्ष्मीर्मुदमादधाति ॥ ३ ॥ प्राभातिकाचारविधौ जलेन प्रक्षालितं वीक्ष्य मुखं नपस्य । सरोरुहं मुञ्चति नाम्बुवासं शशी पुनर्मज्जति वारि[पृ० ८ B] राशौ ।। ४ !! सुवर्णवर्णेऽस्य विशेषमङ्गे कंवर्ण्य रागः कुरुतेऽधिवर्ण्यम् । अलंकृतानेन कुरङ्गनाभिः श्रीखण्डकाश्मीरविलेपनश्री: ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80