Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
कचि - उदयराजविरचितं राजविनोदमहाकाव्यम् ।
॥ षष्ठः सर्गः ॥
अथ विकस्वरवारिरुहेक्षणा शरदिव स्फुटकाशसितांशुका । पुनरवोचत हंसमृदुस्वना सुरपति प्रति वागधिदेवता || १|| aratioबाहुबलोद्धतः प्रयतते परचक्रजिगी [पृ० १९ A]षया । वसुधयापि नृपा धनिनो न किं न विजयेन विना तु यशस्विनः || २ || भजति मन्त्रमशेषविशेषवित् प्रकृतिभिः सुकृती कृतनिश्चयम् । अभिमतं सकृदुद्यमिनामपि स्फुरति मन्त्रबले खलु सिद्ध्यति ॥ ३ ॥ करगतैव सदा परखण्डने प्रखरतर्क मतेरिव वादिनः । विजयसम्पदमुष्य सुनिश्चिता समरसंसदि विक्रमशालिनः || ४ || भुजबलेन विनिज्जितभूतलं प्रतिबलो न हि कश्चिदमुं प्रति । निजचमूरमुनातिगरीयसी परिजनप्रणयेन पुरस्कृता ॥ ५॥ क्षितिभृतः कटके गणना कृता सुभटकोटिषु मुख्यतया स्थितेः । करिषु यूथतैरथ पक्तिभिर्हयवरेषु रथेषु च मण्डलैः ॥ ६ ॥ अगणितं वितरत्यवनीपतावविरतं वसु वैश्रवणोपमे ।
हसति गूर्जरवीरवसुन्धरा न नगरौं न विभीषणगोपिताम् ||७|| [ ० १९B] असिषु निर्मलिते शरासनेष्वधिगुणेषु तथा कवचेषु च । ध्रुवमभेद्यतरेषु रणैषिणां प्रकटयत नवीनमिवादरम् ||८|| स्मरति यन्मनसा तदुपस्थितं सपदि वस्तु पुराकृतसंग्रहम् । भवति भूमिपतेरतिवल्लभं किमिह भाग्यवतः खलु दुर्लभम् ॥९॥ नरपतेर्बहुमानपदे स्थिताः प्रकृतयः पुरुषाः समुपस्थिताः । निजनिजाधिकृतिष्वधिकादरा अवहिताद् बहुसंन्यसमन्विताः ॥ १० ॥ क्षितिपतौ विजयाय यियासति प्रसृमरः पटुदुन्दुभिसम्भवः । ध्वनिरुदेतितरां परिपूरयन् गिरिदरीर्मुखरीकृत दिङ्मुखः ' ॥११॥ सकलभूवलयस्यं पुरन्दरः प्रबलशस्त्रभृतामतिसुन्दरः । विलसदभ्रमुवल्लभबन्धुरं समधिरोहति सम्प्रति सिन्धुरम् ॥ १२॥ विदितवीरसहस्रपुरस्सर जय जयेति [ पृ०२०A] गिरः पृथिवीश्वरम् । चटुलचारणब न्दिजनेरिताः श्रुतिगताः सुखयन्ति समन्ततः ॥ १३॥
**]
(१) दिग्मुखः इति प्र० ।
Jain Education International
For Private & Personal Use Only
[ १५
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9c95518dac11f3835e8833342505f0d775452a42c939d50d215835171b469c30.jpg)
Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80