Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 49
________________ १४] कवि-उदयपजावरचितं राजविनोदमहाकाव्यम्। [५३५ स्वयं प्रसन्नेन कुचावलङकृतौ प्रियेण हारेण नितान्त हा[पृ० १८ A]रिणा। अतीव तुङ्गौ पृथुलौ सुमध्यमा सखीजने साक्षिणि का न मन्यते ॥२८॥ करे गृहीता मणिकङकणार्पणे प्रियेण तन्वी तनुकम्पमात्मनः । मरुच्चलानां चतुरा विनुह्नते मुहुर्लतानामभिनीय विभ्रमम् ॥२९॥ इतः प्रफुल्लेन नवाम्बुजन्मना सरोजिनी भानुमिवोपतस्थुषी । विभाति बाला प्रसृतेन पाणिना प्रसादयन्ती प्रियमूमिकाकृते ॥३०॥ इतः कवित्वैः प्रतिभावती प्रभुं नवैर्नवैस्तोषयति प्रतिक्षणम् । स्फुटं पठन्ती किल तानि पञ्जरे करोति कीरावलिरस्य कौतुकम् ॥३१॥ जयेतिशब्दं समुदीरयन्त्यमी कलाविदो मङ्गलसूचकं मुहुः । .. . नरेन्द्रलक्ष्मीनिनदेन दन्तिनां तमेव संवर्द्धयतीव सम्मदात् ॥३२॥.. यो दत्तवानिह हि भूरि सुवर्णवर्षि कर्णाय कुण्डलयुगं जगदकदीपः । सोऽयं प्रसारितकरः किल सुप्रभातं .. कुर्वन्नृपस्य पुरतः प्रतिभाति भानुः ।।३३।। पृ० १८ B] इत्यस्य साहिमहमूदनृपस्य गेहे सङ्गीतकेलिषु शतक्रतुमालपन्ती । वीणाक्वणैरिव विरञ्चिसुतावचोभिश्चित्ते चमत्कृतिमधत्त समाजभाजाम्॥३४॥ श्रीमान् साहिमुदप्फरस्समजनि श्रीगूर्जरमापति- . स्तस्मात् साहिमहम्मदस्समभवत् साहिस्ततोऽहम्मदः । जातस्साहिमहम्मदोऽस्य तनुजो गायासदीनाख्यया . ___ ख्यातः श्रीमहमूदसाहिनृपतिर्जीयात् तदीयात्मजः ॥३५।। ॥ इति श्रीमहाराजाधिराज-जरबक्सपातसाह-श्रीमहमूदसुरत्राणचरित्र राजविनोदे महाकाव्ये सङ्गीतरङ्गप्रसङ्गो नाम पञ्चमः सर्गः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80