Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
१२] कवि-उदयराजविरचितं राजविनादमहाकाव्यम् । [५. १३
॥पञ्चमः सर्गः॥ . इतो मृदङ्गध्वनिना मृगीदृशो मुहुर्वहन्त्योऽभिनयाय विभ्रमम् । रणझणनूपुरसूचितागमा विशन्ति सङ्गीतकरङ्गमण्डपम् ॥१॥ सुगन्धिनानाकुसुमस्रजांभरैः प्रक्लृप्तमुद्दिश्य विलासमण्डपम् । समापतन्तः परितो मधुव्रताः सृजन्ति झङ्कारमनोहरा दिशः ॥२॥ समीरणो रङ्गभुवः समुल्लसन् विलेपिता या घनयक्षकद्दमैः । सभाजनं भावयतीव सौरभैः कृतार्थयिष्यन्निव गन्धवाहताम् ॥३॥ समन्ततोऽपि प्रसृतं नृपालये प्रकृष्टकृष्णागरु'धूपसञ्चयम् । गवाक्षमार्गनियता मुहुर्बहिर्नभस्वता वासितमम्बरं महत् ॥४॥ तमो नुदत्यो निजभूषणस्फुरन्मणिप्रभाभिः परितः पुरन्धयः । नृपस्य नीराजनमङ्गलोत्सवं सृजन्ति सायंतनदीपमालया ॥५॥ • उदारशृङ्गारमनोहराकृतिविभाति राजा कनकासनस्थितः । स्फुरत्सुप[पृ०१६AJोपरि सन्निषेदुषः श्रयन्मुरारेरनुरूपतामिव ॥६॥ समं समन्तात् परिवृत्य वल्लभं विभान्त्यमूश्चन्द्रमिवोडवः स्थिताः। विलोचनैरञ्चितविभ्रमैस्स्त्रियः कृतोपहारा विकचोत्पलैरिव ॥७॥ इमाः प्रकृत्येव परं मनोरमाः पुनविचित्राभरणैर्विभषिताः । तथा च नृत्याभिनयाथमुत्सुका: कथं न रामा रमयन्ति मानसम् ॥८॥ अमुक्तया पाणितलादपि क्षणं रहस्यसख्येव निबद्धरागया । कलं क्वणन्त्या वरवीणयाऽनया प्रवीणया राजमनो विनोद्यते ॥९॥ जितं हि वादित्रशतेऽपि वेणुना स्वयं निधायाधरपल्लवेऽनया । यदेष रागातिशयेन मुग्धया स्वकण्ठमाधुर्यमिवोपशिक्ष्यते ॥१०॥ दिगङन्तरालेषु नरेन्द्रमन्दिराद् विजृम्भते- सान्द्रमृदङ्गनिस्वनः । । अमुं समभ्यस्यति गज्जितच्छला बलाहकस्ताण्डवयन् शिखण्डिनः।।११॥ [पृ०१६B] कलावतीयं मधुरेण गायति स्वरेण संवासितरागमूर्च्छनम् । निजं मनो मञ्जुलकांस्यतालजस्वनैरिवोज्जागरयन्त्यनुक्षणम् ।।१२।। इयं मुखाम्भोरुहसौरभार्थिनी विलासिनीनां मधुपावलिर्मुहुः । मनोरमालप्तिषु गीतिषु श्रुतेः करोति हुंकारभरेण पूरणम् ॥१३॥
(१) गुरु इति प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e0c8358066e68766951caff47f4d34a918118599b3b3194bdcd86bb0ea2e2329.jpg)
Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80