Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 46
________________ R] कवि-उदयराजविरचितं राजविनोदमहाकाव्यम्। [१९ अस्यावनीन्द्रतिलकस्य' सभाः कवीनां केषां न चेतसि चमत्कृतिमावहन्ति । वक्त्रारविन्दनिवहेषु समुल्लसन्तः स्वच्छन्दमिन्दुरुचयो वचसां विलासा: ॥२५॥ अस्य प्रभोवितरणाज्जित कर्णकीर्तेविद्वज्जनाः प्रणयदृष्टिकृतप्रसादाः । पट्टाम्बरैश्च मुकुटैश्च समप्रतिष्ठासम्भावनां सदसि भूप [पृ० १४ B] तिभिर्लभन्ते ॥२६॥ रागेण सुस्वरतया प्रगुणेन हा हा हू हूपहासपटुसद्गमकप्रयोगाः ।। गीतानि गायनवराश्चरितैरुदारैर्गायन्ति गुम्फितपदानि महीमघोनः ॥२७॥ अन्योन्यमुष्टिहतिवक्त्रितपृष्ठदेशाः पादाभिघातपरिघट्टितहृत्कपाटाः । खेलन्त्यनर्गलभुजार्गलदुर्निवारा: कौतूहलाय बलिनः पुरतोऽस्य मल्लाः ॥२८॥ भाति प्रसृत्त्वरतरैः परितो जनौधैविभ्राजमानबहुरत्नसमृद्धिमद्भिः । क्षोणीसहस्रनयनस्य महान् समाजः पूर्णस्तरङ्गनिवहैरिव वारिराशिः ॥२९॥ स्वच्छन्दमेव निजमन्दिरभूमिकासु यं यं प्रदेशमभिलष्य पदं दधाति । सभ्याः प्रतापनिधिमेनमनुव्रजन्तः सर्वत्र तत्र किरणा इव विस्फुरन्ति ॥३०॥ अमृतसमरसाभिर्दृष्टिभिः [पृ० १५ A] प्रीतियोगान्मुहुरपि बहुमानं भावयन् भृत्यवर्गम् । विशति मधुरगीतैरेष नृत्योत्सवार्थ रचितसदुपचारं मन्दिरं सुन्दरीभिः ।।३१।। इति किल महमूदसाहेरभिनववैभववर्णने प्रसक्ता।। पुनरपि पुरुहूतकौतुकार्थ सरसपदानि सरस्वती व्यतानीत् ॥३२॥ श्रीमान् साहिमुदप्फरस्समजनि श्रीगूजरक्ष्मापति __स्तस्मात् साहिमहम्मदस्समभवत् साहिस्ततोऽहम्मदः। जातस्साहिमहम्मदोऽस्य तनुजो गायासदीनाख्यया ___ ख्यातः श्रीमहमूदसाहिनृपतिर्जीयात् तदीयात्मजः ॥३३ ॥ ॥इति श्रीमहाराजाधिराज-जरबक्सपातसाह-श्रीमहमूदसुरत्राणचरित्रे राजविनोदे महाकाव्ये सर्वावसरो नाम चतुर्थः सर्गः ।। .. श्री: कल्याणमस्तु लेखक पाठकयोः ॥श्रीः॥ [पृ०१५ B] (१) सभाकवी० इति प्रतौ। (२) वितरणाजित० इति प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80