Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
कवि-उदयराजविरचितं राजविनोदमहाकाव्यम्। [९, श्रीमान् साहिमुदप्फरस्समजनि श्रीगूर्जरमापति
स्तस्मात् साहिमहम्मदस्समभवत् साहिस्ततोऽहम्मदः । जातस्साहिमहम्मदोऽस्य तनुजो गायासदीनाख्यया
ख्यातः श्रीमहमूदसाहिनृपतिर्जीयात् तदीयात्मजः ॥३३॥ ॥ इति श्रीमहाराजाधिराज-जरबक्सपातसाह-श्रीमहमूदसुरत्राणचरित्रे राजविनोदे महाकाव्ये संभासमागमो नाम तृतीयः सर्गः ॥[पृ० ११ B]
॥चतुर्थः सर्गः॥ भूयोऽप्यभाषत सुभाषितभावपूर्णा सा पूर्णचन्द्रवदना त्रिदशेन्द्रमेवम् । राज्ञोऽस्य वेत्रधरदत्तपदावकाशान् देशाधिपान् सदसि पश्य कृतप्रवेशान् ॥ १॥ देशस्य यस्य महिमानमिवोपगातु गङ्गा विराजति सहस्रमुखी भवन्ती । वङ्गस्य तस्य नृपतिः प्रणतिं विधत्ते प्राचीपयोनिधिसमपितरत्नपाणिः ॥ २ ॥ मुक्ताफलान्यमलतारकसन्निभानि व्यक्तेन्दुखण्डशुचिशुक्तिपुटार्पितानि । अस्येश्वरस्य यशसा तुलया धृतानि राशीकरोति पुरतः प्रणिपत्य पाण्ड्यः ॥ ३ ॥ स्त्रीणां विचित्रवरवेशविभूषणानामग्रे निधाय शतकं हरिणेक्षणानाम् । आराधयत्यमुमनङ्गजिदङ्गरूपमङ्गाधिपः सरसनृत्यसमुत्कलोऽसौ ॥ ४॥ . निर्गच्छतां प्रविशतां मुहु[पृ० १२A] रङ्गदेभ्यो हीरैश्च्युतः क्षितिभुजां भुजघट्टनेन । द्वारप्रदेशमतिदृश्यममुष्य पश्यन् मानं जहाति किल रत्नपुराधिराजः ॥ ५ ॥ आयाति मन्थरतयैष कलिङ्गनाथः श्रीगूर्जरक्षितिपतेः प्रतिहारभूमौ । . . उद्दामयामिकमहत्तरहस्तियूथदानद्रवप्रसरपङ्किलपिच्छिलायाम् ॥ ६ ॥ अश्रान्तमेव समरेषु कृतश्रमा ये प्रागेव साम्प्रतममुष्य सभाङ्गणस्थाः । तेऽमी त्रिलिङ्गसुभटा नटतां प्रपन्नाः प्रोद्दण्डताण्डवकलां परिदर्शयन्ति ॥ ७ ॥ भक्त्या न लंङवयति राघवसेतुसीमां लङ्कापति तदपि यस्तनुते सशङ्कम् । सोऽप्यस्य पश्य चरणौ शरणं प्रपन्नः कर्णाटकः समुपढौकितहमकूट: ।। ८ ॥ मुक्ताचलैरिव पयोधिनिवेशबाधामुामवज्रधरभीरु[पृ० १२B]तया चरद्भिः ।। ऐरावतप्रतिबलैरवनीन्द्रमेनं दन्ताबलैर्भजति सिंहलभूमिपालः ॥ ९॥.. वेषं विशेषरुचिरं दधतादरेण हस्तारविन्दसमुदञ्चितचामरेण । राजा विराजतितरां परिहृष्यमानो (णो) गोष्ठीषु दक्षिणनृपेण विचक्षणेन ।।१०॥
i
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80