Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 42
________________ ३. १९] कवि-उदयराजविरचितं राजविनोदमहाकाव्यम् । विलासिनः श्रीमहमूदसाहेः सद्भिः सभायामभिशोभितायाम् । कर्पूरवासैः ककुभां मुखानि ताम्बूलयोगः सुरभी करोति ॥ ६ ॥ मृणालसूत्रैरिव निम्मितं यद् अयं नवीनै दुलं महीन्द्रः । वास: शरच्चन्द्रमरीचिगौरमङ्गस्य तन्मण्डनमाविति ॥७॥ विश्लेष्य पूष्णोर्वपुषः प्रयत्नात् त्वष्ट्रेव पूर्व घटितं मयूखैः । रत्नप्रभाभूषितदिग्विभागमयं महीन्द्रो मुकुटं बिभर्ति ॥ ८॥ परिस्फुरत्कुण्डलपद्मरागप्रभाङकुरैरजितमास्यमस्य । स्मितांशुलेशैर्ह सतीवाई बालारुणस्पृष्टसरोजलक्ष्मीम् ॥ ९ ॥ अलं विशालं नृहरेविभाति वक्षःस्थलं श्रीमहमूदसाहेः । [पृ० ९ A] लक्ष्मीर्यदालिङग्य सदा सहारं मुदा करोति प्रमदाविहारम् ॥१०॥ अयं भुजाभ्यां स्फुरदङ्गदाभ्यामालिङ्गिताभ्यां चतुरङ्गलक्ष्म्या । विराजते श्रीमहमूदसाहिः साम्राज्यमुद्राङ्कितपाणिपद्मः ॥११॥ पादारविन्दं महमूदसाहेः श्रियोऽधिवासं वयमानमामः । दारिद्रयसन्तापनुदे सदैव यदातपत्रीक्रियते धरित्र्या ॥१२॥ आत्मानमादर्शतले सलीलमालोकयन्तं महमूदसाहिम् । मुह्यन्ति साक्षान् मदनावतारमुदीक्ष्यमाणा मदिरायताक्ष्यः ॥१३॥ आसीनमष्टापदपीठपृष्ठे राजानमेनं नयनाभिरामम् । नीराज्य ना• नवरत्नदीपैर्मुक्ताक्षतैः सस्पृहमर्चयन्ति ।।१४।। एवं सदान्तःपुरसुन्दरीभिर्मुदा प्रसन्नो वरिवस्यमानः । बहिःसमाजस्थितराज [पृ० ९B] लोकविलोकनेच्छां सफली करोति ॥१५॥ सिंहासनं श्रीमहमूदसाहे सहेलमारोहति राजसिंहे । जयेतिशब्दः प्रसरन् पुरस्ताज्जनस्य कर्णोत्सवमातनोति ॥१६॥ सहस्रपत्रं ध्रुवमातपत्रं शिरस्युदारं महमूदसाहेः । सुवर्णकुम्भश्रितकणिकाश्रि चकास्ति गारुत्मद् दण्डनालम् ॥१७॥ तपः पुराऽतप्यत याभिरिन्दोरकस्य सम्पर्कमवाप्य भाभिः । एताश्चलच्चामरचारुभावान्नरेन्द्र चन्द्रं परिवीजयन्ति ॥१८॥ आलोकमात्रादपि सर्वलोकानाह्लादयन्तं कमनीयकान्तिम् । नेच्छन्ति के द्रष्टुमिमं नरेन्द्रं सतां सभापर्वणि पूर्णचन्द्रम् ॥ १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80