Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
८] कवि-उदयराजविरचितं राजविनोदमहाकाव्यम् ।
[३. ३२ सिंहासनस्थस्य पदारविन्दं दुरान् नमत्यस्य नरेन्द्रवृन्दम् । तत्पीठभूमौ विलुठत्युदारा तन्मौलिमाणिक्यमयूखधारा ॥ २० ॥ निरङकुशत्वेन मदातिरेका [पृ० १०A] नोज्झन्ति ये स्वैरविहारदर्पम् । स्थिता निषिद्धा महमूदसारे गजेन्द्रा इव ते नरेन्द्राः ॥२१॥ समं समास्थाय नरेन्द्रवृन्दरकुण्ठकण्ठं मधुरं पठन्तः । वैतालिकाः श्रीमहमूदसाहं छन्दोविदः संसदि संस्तुवन्ति ॥२२॥ उपायनानामपि लक्षकोटी राजन्यकोटीरमणेः पुरस्तात् । दृक्पातमात्रेण कृतप्रसादा यदृच्छयैवार्थिजना लभन्ते ।।२३।। यतो यतो भूमिभुजोऽवतीर्णः प्रसादपूर्णः खलु दृक्तरङ्गः । ततस्ततः संसदि रत्नमालालक्ष्येण लक्ष्मीर्भजते विशाला ।।२४।। आकर्ण्यते कर्णविशेषवर्यात् सुवर्णवर्षान् महमूदसाहेः । प्रागेव सिद्धार्थमनोरथत्वाद् देहीति कस्यापि न दीनशब्दः ॥२५॥ कवीश्वराणां महमूदसाहेरि प्रसादाधिगता द्विपेन्द्राः । दानाम्बुना कीतिसरोजि [पृ० १०B] नीनां स्फुटैणालैरिव भान्ति दन्तैः ॥२६॥ कवित्वरूपेण महाकवीनां कीर्तिः स्फुरन्ती महमूदसाहेः । बिगाहते राजसभान्तराणि सुधाभिषेकोत्सवमावहन्ति ॥२७॥ सिंहासने भाति नरेश्वरोऽसौ व्याप्नोति तेजोमहिमाऽस्य विश्वम् । कोशं श्रयत्यस्य कृपाणयष्टिराज्ञामयं रक्षति दिक्षु चक्रम् ॥२८॥ आक्रम्य दिग्दशकचक्रमपाकरिष्णोरन्धं तमो गगनमूर्ध्निगतस्य पूष्ण दृग्गोचरे चरति कोऽपि न भूतले यस्तुल्यो रणे वितरणे महमूदसाहेः ॥२९॥ उच्चैः प्रतापदहनं समरे प्रदीप्यज्जुह्वन् मुहुर्बहलशात्रवकीत्तिलाजान् । रत्नाकरोचितसमुज्ज्वलमेखलाया वीर: करग्रहमयं कुरुते धरायाः ॥३०॥ उल्लासयन् श्रियममुष्यकरः समुद्रः सान्द्राः प्रदा [पृ० ११ A] नलहरीरभितो विति । यास्तन्वते दशदिगन्तरसैकतानि मुक्ताफलैरिव यशोभिरलंकृतानि ॥३१॥ इति दशशतनेत्रस्यापि देवी समक्षं क्षितिशतमखकीतिं कुर्वती ब्रह्मपुत्री । व्यलसदिह कटाक्षश्रेणिभृङ्गानुयातैः स्मितकुसुमसमूहैः पूजयन्ती समाजम् ।।३२॥
(१) कोटीरः-किरीटः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80