Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
६.३६ ]
कवि-उदयराजविरचितं राजविनोद महाकाव्यम् ।
[१७
उत्कण्ठया निशि भृशं विरहं विषह्य तीरान्तरेषु सरसः सरसं रसन्ति । [ पृ० २१B] राजन् परस्परवितीर्णमृणालनालान्येतानि हन्त मिथुनानि रथाङ्गनाम्नाम् ॥२८॥ प्राभातिकेन पवनेन हिमागमेऽपि भूयः प्रबोधितमहाविरहानलाच्चिः । त्वद्वैरिणामविरलैर्जगदेकवीर सिञ्चन्ति लोचनजलैर्हृ दयं तरुण्यः || २ || श्री मण्डपे तव नवारुणभाविशिष्टमाञ्जिष्ठमामिनि मङ्गलगायनीनाम् । निःश्वास सौरभगुणेन मुहुभ्रंमन्तो वीणारवमंधुकरा नृप सम्वदन्ते ॥३०॥ दन्ताबलेष्वधिकृता युधि योधमुख्यान् ग्रासाय चाटुभिरमून् प्रतिबोधयन्ति । धीराः पराभवमपि प्रणयात् सहन्ते मानोज्झितां न नृपसम्पदमाद्रियन्ते ॥३१॥ अन्योन्यमत्सरभृतो नवमन्दुरासु क्षुण्णोदरासु खुरलीखुरलीलयैव । चेतो हरन्ति मधुरं नृप हेषमानाः प्राभातिकाय यवसाय हयास्त्वदीयाः ||३२|| नादः समुल्लसति [पृ० २२ A] मर्दलझल्लरीणां सेवार्थराजकसमाजनिवेशरांशी । राजन् मुखानि घनमङ्गलभूरिभेरीभाङ्कारभाञ्जि कुकुभामभितो भवन्ति ॥ ३३ ॥ - इति मधुरवचोभिर्मागधैस्स्तूयमानः क्षितिपतिशतचूडारत्ननीराजिताघ्रिः । दिनकर इव भूयस्तेजसा वर्द्धमानो महमदनृपसूनुः स्वां सभामभ्युपैति ||३४|| एवं निगद्य वचसामभिदेवता सा सानन्दमुल्लसितकुन्दसमानहासा । एतत्समाजकविराजकुलं कटाक्षै रालक्षितप्रचलषट्पदलक्षणीयैः ॥ ३५ ॥ श्रीमान् साहिमुदप्फरस्समजनि श्रीगुज्जरक्षमापति
स्तस्मात् साहिमहम्मदस्समभवत् साहिस्ततोऽहम्मदः । - जातस्साहिमहम्मदोऽस्य तनुजो गायासदीनाख्यया
. ख्यातः श्रीमहमूदसाहिनृपतिर्जीयात् तदीयात्मज: ॥३६॥
॥ इति श्रीमहाराजाधिराज-जरबक्स पातसाह श्री महमूदसुरत्राणचरित्रे राजविनोदे महाकाव्ये विजययात्रोत्सवो नाम षष्ठः सर्गः ॥ [पृ० २२B]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fb02a65666e91f767d3cf7b659e5bb405b68ac2479542fcf1f19011f6d7a16e9.jpg)
Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80