Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
१०]
कवि-उदयराजविरचितं राजविनोदमहाकाव्यम् ।
एतस्य चण्डभुजदण्डपराक्रमेण निश्शेषखण्डितरणाङ्गणशौण्डभावः । सर्व्वस्वमेव निजजीवितरक्षणाय दण्डं समर्पयति मालवमण्डलेशः ॥ ११ ॥
यः पार्थिवः पृथुतरः खलु कुम्भकर्णः कर्णेन वर्णमुचितं सहते तुलायाः । सोऽयं करोति महमूदनृपस्य सेवां दण्डे वितीर्णवरभूरिसुवर्णभारः ॥ १२ ॥
यः कामरूप इति देशपतिः प्रसिद्धो न क्षोभ्यते परबलैर्ध्रुवमानसस्थः । अस्याग्रतो विलुठति प्रभुशक्तियोगाद् आकृष्ट एष विनिवेदि [पृ० १३ A] तरत्नदण्डः ॥ १३॥
एतस्य के लिवनराजिविहारलाभाद् गन्तुं न राजवनमिच्छति मागधेन्द्रः । न स्तौति पुष्पामयमण्डपवासयोगाद् भोगाय पुष्पपुरवासमपि प्रकामम् ॥१४॥ यद्देशमेत्य सरिती परिषष्वजाते जह्रोः सुता च यमुना च तरङ्गदोभिः । सोऽयं प्रयागपतिरुज्ज्वलशातकुम्भकुम्भैः पयो वहति पेयममुष्य राज्ञः ॥ १५ ॥ यः शूरसेन इति शूरतया प्रसिद्धो देशोऽस्ति तस्य पतिरेत्र विशेष शूरः । क्ष्माकमुकुटस्य समीपवर्ती सेनाधिपत्यमधिगत्य जयत्यरातीन् ||१६||
पार्श्वे चरन् हरिचरित्रकथाप्रसङ्गात् कोटिम्भ रेमं हम्मदक्षितिपालसूनोः । कृत्येषु नित्यमधिकृत्य पदं हि राज्ञां विज्ञापनां वितनुते मथुराधिनाथः ॥ १७ ॥ एतस्य सम्प्रति मुदप्फरपातसाहे वंशे [पृ० १.३B] कभूषणमणेश्चरणेऽवनत्रः । ढिल्लीपुरी परिदृढोऽप्यभिमानगाढां प्रौढिं परित्यजति निज्जितकान्यकुब्जः ॥ १८ ॥
[ ४२२४
एतत्समाजमणिमण्डित वेदिकायामालोकयन् घनविलेपनमेणनाभेः । नेपालमण्डलपतिः शिथिलीकरोति स्वस्याः क्षितेरपि तदाकरताभिमानम् ||१९|| इन्द्रोऽसि वीर वरुणोऽसि वसुप्रदोऽसि लोकेश्वरोऽप्यसि पुरारिमुरारिमूर्तिः । इत्थं हि साहिमहमूदनृपस्य साक्षात् काश्मीरमण्डलपतिस्तनुते प्रशंसाम् ||२०|| वीरः स्वयं समिति विद्विषतां निहन्ता प्रख्यातपौरुषमशेषधनुर्द्धरेषु । आरोहणे चितविचित्रतुरङ्गमाणां संवाहनाविधिषु सिन्धुपति नियुक्ते ||२१|| लक्षेण शार्ङ्गधनुषामपि वाजिनां चं तेजस्विनां समुपढौकितभागधेयः । अस्याग्रतो भवति गूर्जर [ पृ० १४ A] पातसाहे रानम्प्रमौलिरधिपः किल मुद्गलानाम् ||२२||
एतस्य साहिमहमूदनृपस्य सर्वं सर्वसहेश्वरतयाधिकवद्धितर्द्धः । स्पर्धेत कस्तुलनया मलयाद्धिमाद्रिमस्ताचलादुदयभूमिधरं च यावत् ॥ २३॥
सिंहासने महति तिष्ठति चक्रवर्ती यस्मिन् विशिष्टमणिदर्पणदर्शनीये । पार्श्वस्थ राजपरिषत्प्रतिबिम्बिताङ्गी साक्षाद् बिर्भात पदमस्य निजोत्तमाङ्ग ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/50386aef52a9f9e890b047838219f338730cc93a2dc6901b100821c91e567f18.jpg)
Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80