Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 25
________________ महाकविश्रीरामचन्द्रसूरिरचितं ख्यातस्तातोऽप्यथ दशरथः किञ्चिदेतद् व्यधत्त, व्यक्तं तस्मादजनि महतां सोऽपि पन्थाः कलङ्की ॥ १८ ॥ सुबुद्धि: - देव ! सत्यव्रताचरणपवित्रिते कर्मणि कोऽयं विषाद निषादप्रवेशः १ । राजा - ( साक्षेपम् ) रामभद्रप्रवासनाकालुष्यकश्मले कर्मणि कथमनुचितो विषादप्रवेश: ? । प्रतीहारः - विहितप्रवासनेपथ्यो रामभद्रकुमारो देवपादान् द्रष्टुमभिलपति । सुबुद्धि: - रामभद्र प्रवेशमादिशतु प्रतीहाराय देवः । ( राजा सदुःखमधोमुखं तिष्ठति । ) कौशल्या - अजउत्त ! पविसदु वत्सो । पिच्छदु पिउणो पादे । सुमित्रा - अंज्जउत्त ! अणुजाणेहि वत्सं, जेण पिउणो पाए पिच्छदि । राजा - ( साक्षेपम् ) यत् (यः) पूर्व शतशो ममांहियुगलीमाबाल्यतो दृष्टवान्, भक्त्या तस्य बभूव देवि ! विपिने तावन्निवासः फलम् । तां सम्प्रत्यपि वीक्षितुं गुरुतरोत्कण्ठाव्यथाव्याकुलो वत्सः कां पुनरप्ययं स्पृहयति श्रेयस्तमां सम्पदम् ? ॥ १९ ॥ कौशल्या - अजउत्त ! को एस पुणो पुणो अत्तणो विसायकिलेसो ? | प्रतीहारः - देव ! रामभद्रः कुमारो [.. राजा - ( साक्षेपम् ) " नाsकीर्त्तिर्गणिता, श्रिता न सरणिलेोकस्य वृत्तं सतां न ध्यातं, गुणशालिनो हृदि धृतं पुत्रस्य न प्रेम च । चण्डालाचरणाश्चिते विरचिते कर्मण्यधर्माविले वक्रं दर्शयितुं न मे समुचितं द्रष्टुं न रामस्य च ॥ २० ॥ अलं श्रुत्वा वाचं सपदि मम वत्सेन कलुषा मरण्यानीं व्यालव्यसनशतकीर्णां प्रवसता । न नामादृश्यास्यः परमहमभाष्योऽपि महतां, तदास्तामास्तां मे वदनमपटीच्छादितमपि ॥ २१ ॥ · ]था समनुसर विपिनम् । शिवास्ते पन्थानः । दृष्टा एव शतशो वयम् । कृतमिदानीमस्मदर्शनेन । १ ) आर्यपुत्र ! प्रविशतु वत्सः । पश्यतु पितुः पादौ । २ ) आर्यपुत्र ! अनुजानीहि वत्सम्, येन पितुः पादौ पश्यति । ३) आर्यपुत्र ! क एष पुनः पुनः आत्मनः विषादक्केशः ? | प्रतिसत्के १५-१६ पत्रे त्रुटिते वर्त्तते इति खण्डितांशस्थाने उद्धारगतोंऽशोऽत्रोद्धृतोऽस्ति । ४ ) अत्र तालपत्रीय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102