Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 44
________________ रघुविलासनाटकम् - तृतीयोऽङ्कः । रामः - (सबैलक्ष्यम् ) 'रावणेन विराधो व्यापादितः' इति कुटिलकादवधार्य जातवेदसि प्रवेष्टुकामा चिरमस्मदन्तिकमपहाय गता ते प्रिया पत्रलेखा ।। लक्ष्मणः -कुटिलकावेदितः खल्वयमुदन्तो व्यलीकः, नैमित्तिकोपदेशेन खरायोधनमूर्द्धनि विराधो मदभ्यर्णे स्थितवान् । विराधः- महापुरुषचूडामणे ! भवत्यपि यदि न्यासापहारः, खिलस्तर्हि शरण्यानां पन्थाः । ( रामः सबीडमास्ते ।) विराधः- अपहृता खलु दशकन्धरेण प्रिया मे पत्रलेखा, अस्ति हि दुरात्मनोऽस्य पत्रलेखायां पुराऽपि गाढानुरागं चेतः । रामः-( लक्ष्मणं प्रति) केयमस्माकमुत्पातपरम्परा? । विराधः- ( सोरस्ता डम् ) हा प्रिये पत्रलेखे! कामिमां दुःस्थामवस्थामधिगतासि । ( इति मूर्छामभिनयति ।) रामः - विराध ! कोऽयं राजन्यवंशविरोधी धैर्य विप्लवः ? । गत्वा विलोकय तापसपर्णशालासु । सम्भाव्यते तत्र ते कलत्रम् । (प्रविश्य सम्भ्रान्तः ) तापसः-विराध ! कुलपतिस्ते समादिशति । विराधः- (स्वगतम् ) साधु समयज्ञ तालजङ्घ ! साधु । (प्रकाशम् ) कौटिल्य ! किमादिशति मे कुलपतिः । तापसः - 'हा विराध ! हा विराध !' इति प्रलपन्ती काऽपि युवतिः केनापि क्रव्यादेनापहता । भवन्तं च भूयो भूयो दशकन्धरः पर्णशालासु गवेपितवान्-इति समादिशति ते कुलपतिः। विराधः-- कृतकं वेपते । रामः-निश्चितं वत्स ! रावणः पत्रलेखामपहृतवान् । जटायुरपि पत्रलेखां त्रातुकामो रावणेन व्यापादितः। (पुनर्विराधं प्रति) न्यासप्रवासमधुना निरवद्यधानि, व्यालोक्य भास्करकुले प्रथमं कलङ्कम् । बीडावतो मम भवद्वनितापहाराद्, भूम्ना मतो जनकराजसुतापहारः ।। १६ ॥ विराधः-परमार्थतः सीतापहार एवायम्, न पत्रलेखापहारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102