Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 62
________________ रघुविलासनाटकम् - पञ्चमोऽङ्कः । कियदिदमिति बुढ्या दर्पकण्डूलबाहुः, सुरजयकथयाऽपि वीडमालम्बते यः। मनुजभुजकलाभिर्भाप्यते सोऽपि लङ्कापतिरहह ! विपाकः कर्मणां कोऽप्यचिन्त्यः ॥१८॥ (पुनः सवितर्कम् ) श्लाघ्यः सैषं यदर्थमेवमनिशं सीता परिक्लाम्यति, ऋरस्य प्रणयादमुष्य खल सा नास्मभ्यमुत्ताम्यति । व्यारोहत्परितोष-रोषविकसद्रोमाञ्चसान्द्रीभव होष्णां पश्य वनेचरः कथमभूद् वन्द्यश्च निन्द्यश्च नः ? ॥ १९ ॥ मारीचः- (प्रणम्य ) देव ! भवतु सफलप्रार्थनः कुमारो विभीषणः । मुच्यतां वैदेही । उपशाम्यन्तु सवनौकसो वनचारिणः । रावणः- (सरोपम् ) इदमपरमार्यस्य विश्रसालीलायितम् । रावणः खल्वहमनास्पदं सवनौकसां वनेचरडिम्भानां पराक्रमस्य ।। विभीषणः-- ( सखेदम् ) डिम्भत्वं वनचारिणोः खरकुलात् प्रत्येति कोऽन्यस्तयो ाली यं विनयं व्यधत्त समरे तत्राब्धयः साक्षिणः। पाया मौलिकिरीटकुट्टनमहं देवः स्वयं दृष्टवान्, भ्रातः ! शान्तिमुपैहि सान्त्वय नय-स्थामोद्धरौ तौ नरौ ॥२०॥ रावणः - (सरोपम् ) अरे कुलाङ्गार! प्रतिपक्षचार! प्रथितोपहास! बान्धवाभास! मर्मोद्धट्टनाभिर्दशकन्धरमुल्लण्ठयसि ? । एप ते चन्द्रहासेन मूर्धानं पातयामि । ( इति सिंहासनादुत्थानं नाटयति ।) मारीचः-(ससम्भ्रमम् ) देव ! किमिदम् ? । कोऽयं कनीयसि भ्रातरि चन्द्रहासपरामर्शप्रयासविप्लवः । कलकण्ठः-देव ! सिंहासनमलकियताम् । रावण:-( उपविश्य ) अरे बान्धवाधम ! सत्वरं शबरमनुसर । मास्म लङ्कायामतः परं तिष्ठ । विभीषणः-न भाव्यमन्यथा भवति, तदहं रक्षोराजन्यबीजरक्षार्थ राममनुसरामि । (इति विचिन्त्य निष्क्रान्तः ।) रावणः-(साक्षेपम् ) आर्य ! त्वमपि स्खं नियोगमशून्यं कुरु । कुन्द ! प्रहस्तमाकारय। १) सुरविजयकथाभिीड उ०। २) सैव उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102