Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 88
________________ रघुविलासनाटकम् - सप्तमोऽङ्कः । ७१ रावणः- देवि ! किमिदमश्रुतचरं नः श्रावयसि ? । मयः - ( सबाप्पम् ) देव! ह्यस्तने समरसंरम्भे कुमारः शक्रजित् कुम्भकर्णश्च वनेचर - कपिभिनियम्य ( इत्यक्तावधोमुखीभवति ।) रावणःहुं शक्रः स जितो जितो धृतधृतः कैलाशशैलोऽम्बरे, क्रान्तं क्रान्तमिदं जगत् प्रतिभटप्रावासिकैयाहुभिः । येयं सम्प्रति बन्धुवन्धनकथा लङ्कापतेर्जीवतः, कर्णषु प्रथते किमेकमनयाऽगीतं न विस्फूर्जितम् ? ॥ ३५॥ (पुनः साक्षेपम् ) यानां संवृणु देवि ! दुर्दमधुराधुर्यस्य लङ्कापते र्वीरस्यासि सर्मिणी करुणया किं बान्धवद्वेषिणी? । ज्वालामांसलचन्द्रहासकुलिशव्यालीढकण्ठस्थलादुत्कृत्तस्य वनान्तचारिशिरसः सन्धि विधातास्महे ॥ ३६॥ (पुनरूर्द्धमवलोक्य साशङ्कम् ) केशाकेशि किमम्बरे दिविषदां स्थानार्थिनां? मागधैः, प्रेर्यन्ते किमभिरमार्थमधिकं रक्षश्चमूचारिणः ? । आश्वीयस्य च हास्तिकस्य च रजः काष्ठाः स्तृणीते कथं ?, कस्मात् कावचिकान्यहम्प्रथमिकां साङ्ग्रामिकीं बिभ्रति ? ॥ ३७॥ ( पुनः साक्षेपम् ) आर्य ! किमिदम् ? । मयः- देव ! शबरवर्गीयाणामवस्कन्द इव लक्ष्यते । ( नेपथ्ये) बन्दीवीरास्त्रस्यत रे ! रणं सुरवधूनेत्रप्रियम्भावुकः, स्कन्धाभोगभयङ्करो रघुपतिः सोऽयं स्वयं कामति । यद्वाणाशनिदक्षिणेमधमनीनिष्ठयतरक्तारुणं, भूयोऽपि ग्लपयाञ्चकार मरुतस्तत्कौम्भकर्णं वपुः ॥ ३८ ॥ सीता-( सहर्षम् ) तियंडे अजउत्तवन्नणासवणेण चिरा निव्वाविद म्हि । रावणः - ( सक्रोधम् ) चक्रं चक्रमरे! १) येयं बन्धु-तनूजबन्धन उ । याऽऽरम्भं प्रनि बन्धुबन्धन नाद.। २) त्रिजटे! आर्यपुत्र वर्णनाश्रवणेन चिराद् निर्धापिताऽस्मि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102