Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 90
________________ [अष्टमोऽङ्कः] (ततः प्रविशति सारणः ।) सारण:-( सविपादम् ) ये सदा सरुजो ये च भृत्या भृत्यद्विषि प्रभौ । जीवितं मरणं तेषां मरणं जीवितं पुनः ॥१॥ (नेपथ्ये) परमत्थं मंतेसि --- अंधाण दरिदाण य परव्वसाणं च वाहियाणं च । जं चिरकालं जीअं तं खलु पावस्स माहप्पं ॥२॥ सारणः- कथमियं दारुणिका ममाभिप्रायमनुरुध्यते । (प्रविश्य) दारुणिका - अंज सारण ! कत्थ पत्थिदोऽसि ? । सारणः -मातामहस्य माल्यवतः समीपे देवेन प्रेपितोऽस्मि । दारुणिका- किं ति ?। सारणः - ( सखेदम् ) कियन्ति रावणस्य कपटनाटकानि तुभ्यमावेदयामि ? । ( पुनः कर्ण एवमेव ) दारुणिका - (सखेदम् ) अज्ज अदिदारुणं खु एदं । अवि णाम एदं अदिट्ठपुव्वं पेच्छिय सीदा विवादि । सारणः --विज्ञपितमिदं मया देवाय । ततो मां व्यापादयितुं देवश्चन्द्रहासमाकृष्टवान् । तदलमनया रावणचरितमीमांसया । कथय व प्रस्थिताऽसि ? (दारुणिका कणं एवमेव ।) सारणः --ब्रज तर्हि राम - रावणालङ्कृतं सङ्ग्रामम् । अहमपि यथादिष्टमादधामि (इति निष्क्रान्तः।) ॥ विष्कम्भकः ॥ १) परमार्थ मन्त्रयसि । अन्धानां दरिद्राणां च परवशानां च ध्याधितानां च । यत चिरकालं जीवितं तत् खलु पायस्थ माहात्म्यम् ॥ २ ॥ २) आर्य सारण ! कुत्र प्रस्थितोऽसि? । ३) किमिति ? । ४) आर्य ! अनिदारुणं खलु एतत् + अपि नाम तत् अदृष्टपूर्व प्रेक्ष्य सीता विपद्यते। पु. ना. १० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102