________________
[अष्टमोऽङ्कः]
(ततः प्रविशति सारणः ।) सारण:-( सविपादम् ) ये सदा सरुजो ये च भृत्या भृत्यद्विषि प्रभौ । जीवितं मरणं तेषां मरणं जीवितं पुनः ॥१॥
(नेपथ्ये) परमत्थं मंतेसि --- अंधाण दरिदाण य परव्वसाणं च वाहियाणं च । जं चिरकालं जीअं तं खलु पावस्स माहप्पं ॥२॥ सारणः- कथमियं दारुणिका ममाभिप्रायमनुरुध्यते ।
(प्रविश्य) दारुणिका - अंज सारण ! कत्थ पत्थिदोऽसि ? । सारणः -मातामहस्य माल्यवतः समीपे देवेन प्रेपितोऽस्मि । दारुणिका- किं ति ?।
सारणः - ( सखेदम् ) कियन्ति रावणस्य कपटनाटकानि तुभ्यमावेदयामि ? । ( पुनः कर्ण एवमेव )
दारुणिका - (सखेदम् ) अज्ज अदिदारुणं खु एदं । अवि णाम एदं अदिट्ठपुव्वं पेच्छिय सीदा विवादि ।
सारणः --विज्ञपितमिदं मया देवाय । ततो मां व्यापादयितुं देवश्चन्द्रहासमाकृष्टवान् । तदलमनया रावणचरितमीमांसया । कथय व प्रस्थिताऽसि ?
(दारुणिका कणं एवमेव ।) सारणः --ब्रज तर्हि राम - रावणालङ्कृतं सङ्ग्रामम् । अहमपि यथादिष्टमादधामि
(इति निष्क्रान्तः।)
॥ विष्कम्भकः ॥
१) परमार्थ मन्त्रयसि ।
अन्धानां दरिद्राणां च परवशानां च ध्याधितानां च ।
यत चिरकालं जीवितं तत् खलु पायस्थ माहात्म्यम् ॥ २ ॥ २) आर्य सारण ! कुत्र प्रस्थितोऽसि? । ३) किमिति ? । ४) आर्य ! अनिदारुणं खलु एतत् + अपि नाम तत् अदृष्टपूर्व प्रेक्ष्य सीता विपद्यते।
पु. ना. १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org