________________
७४
महाकविश्रीरामचन्द्रसरिरचितं ( ततः प्रविशति रथेन रावणः प्रहस्तप्रभृतिकश्च परिवारः । ) रावणः-(समन्तादवलोक्य) प्राचीनमश्चति वियत् पृथुशोककोक
कान्ताकपोलपुलकोपयिकं दिनेशः। श्रान्ता इवास्ततटकुटिममाश्रयन्ति,
राजीवजीवितहृतो हरिणाङ्कपादाः ॥ ३ ॥ प्रहस्त:- देव ! किमप्यद्भुतं वर्तते ? । तथाहि मनुजमात्रविजयेऽपि निर्जितवास्तोपतेर्लङ्कापतेः
तुष्टं रुष्टंमुदासि सत्वरमवाँगुत्तानमा १ढं, __ मुंग्धं रौद्रमौन्द्रि 'खेदि विशैदं ताम्र विशालं कृशम् । स्फारवीडमहंयुतापरवशं हिंस्र कृपाक्ष्मलं,
चक्षुर्विंशतिसङ्खयमेतदभवचिन विरुद्धस्थितिः ॥ ४॥ . राषणः- ( सविषादा-ऽवष्टम्भम् ) विजेतुर्जम्भारिं मनुजपृथुकस्यापि विजये,
दृशो मानाभावान् दधति यदरिष्टं किमपि तत् । अरिष्टानि स्युर्वा कति न सुकृतानां प्रतिभुवं,
परीपाकप्राप्ये जनकपतिपुत्रीपरिचये ? ॥ ५ ॥ ( पुनर्विमृश्य ) कोऽय भोः !? ।
(प्रविश्य ) राक्षसः-एपोऽस्मि ।
रावण:- अरे सर्पकर्ण! समादिश कुन्दम् , यथा- दारुणिकासमादिष्टे वस्तुनि सावधानेन भवितव्यम् ।।
(राक्षसो नि कान्तः।) रावणः-कियति दूरे नौ वनेचरौ ? ।। प्रहस्त:- देव ! नैदीयांसावेव तावेतो रथिनौ ।
(ततः प्रविशति रामो लक्ष्मणश्च । ) रामः-वत्स! यदिदानी वामं दक्षिणं च चक्षुः स्फुरति तदशुभपूर्व शुभमुदक तर्कयामि।
१) तर्जितवाम्तो° उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org