________________
रघुविलासनाटकम् - अष्टमोऽङ्कः । लक्ष्मणः - पारदारिके पापीयसि राक्षसे कोऽयमार्यस्म समरसैरम्भः ? । तदहमेव दुरात्मानमेनमुपसंहरिष्ये ।
रावणः-( सावहेलम् ) अरे म्लेच्छौ ! को वां जनकतनयाजानिरनिशं,
विजिज्ञासुः सोऽहं द्रुतमथ भवन्तौ विवृणुताम् । दशास्यान् त्रस्यन्ती यमधिमनसं ध्यायति मुदा,
सदा सा वैदेही स हि कृतधियां द्रष्टुमुचितः ॥ ६॥ लक्ष्मणः-(साधिक्षेपम् ) अरे पारदारिक! नृपतिविनतिशिक्षासन्नदीक्षापवित्र
स्त्रिजगदभयदुर्ग जानकीजानिरेषः। अनधिगतचराणां कौतुकी बन्धनानां,
यमधिरणमपश्यत् कुम्भकर्णोऽपि वीरः॥ ७॥
रावणः - (अनाकर्णितकेन रामं प्रति ) अरे वनेचर ! विरम विरम समरसंरम्भात् , न खलु पात्रं लङ्कापतिर्मय॑विक्रमाणाम् ।
आसन्नैकानविंशैः क्षितिभृति गगनान्तर्धते येन दोभिः,
सौधप्रग्रीवमालाकरणिमुपनवान्याननान्याश्रयन्ते । तस्मिंस्त्रैलोक्यवीरस्मयविजयमयीमभ्यमित्र्यप्रशस्ति,
बिभ्राणे वर्गराजोऽप्यजनि बहुरजः किं पुनर्मय॑डिम्भः ? ॥८॥ लक्ष्मणः - ( सोपहासम् ) विगाढान्तःसारः स जगति कुवेरक्षितिधरः,
पिशाचः सावज्ञं क्षिपति यमभिव्योम भुजया। पिशाचोऽपि ज्ञातः स च विकचवीरव्रतचण
स्तदुत्क्षेपेणापि स्पृशति हृदि दर्प किमपि यः॥९॥ रावणः - अरे कूपकच्छप ! अनभिज्ञोऽसि दाशकन्धरीणां वीरचर्याणाम् । अनिमिषभूयमनिन्दन् मघवा यदसिस्फुलिङ्गनिचिताक्षः। एकधुरस्तस्य पुरः समराङ्गणरिङ्गणः कः स्यात् ॥१०॥ रामः- ( सावहेलम् ) जीर्यन्मर्कटखेटलुण्टितभुजव्यूहावलेपेन यः,
क्रव्यादेन नियम्य चारककुटीक्रोडाकुटुम्बीकृतः । १) मित्रप्रशस्ति उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org