________________
महाकविश्रीरामचन्द्रसूरिरचितं सुत्रामा हतकः स नाकखलपूस्तत्क्षेपग भैरथो,
काकुस्थेषु किमेषु रोहति चमत्काराङ्कुरः स्फूर्जितैः ॥ ११ ॥
रावणः- ( चन्द्रहासं परामृश्य ) अरे ! अलीकभुजाशौण्डीर्यदर्पण वृथाऽऽत्मानमुपसंहरसि ।
न शक्तिः सौमित्रिं यदकृत कृतान्तप्रणयितां,
नियन्त्री तत्राभूजनकपतिपुत्रीविधुरता । कृपाणः क्षुन्दानः पुनरयमरातीनपघृणः,
शृणिनिस्त्रिंशानां जगति भवितुं कः परिवृढः ? ॥ १२ ॥ रामः - ( सकरुणमिव ) अरे पारदारिक ! वीरसारमेय ! चापाचार्यकमेष लक्ष्मणभुजः सन्तन्य नाडिन्धमै
र्यावन्नास्थिघनाः कषत्युपनवाः कण्ठस्थलीः सायकैः । तावन्मुश्च पिशाचिकां रणरसोदन्यां बराकी सुत
व्यापत्तिव्यसनानभिज्ञनयना सन्तिष्ठतां कैकसी ॥ १३ ॥
रावणः - (सरोषम् ) अरे म्लेच्छाधम ! दशकन्धरस्य मातरमधिक्षिपसि ?। गृहाण शस्त्रम् । इदानीमेप न भवसि ।
(नेपथ्ये) विरम विरम बन्धो! साहसिक्यादमुष्माद्,
विमृश रघुषु कस्ते शस्त्रहेवाकपाकः?। अमरनगरलक्ष्मीलुण्टनाट्यम्भविष्णुः,
क्षितिवलयविहारी हार्यते किं प्रतापः ? ॥ १४ ॥
रावणः-( विलोक्य ) कथमयं बान्धवाधमो दुरात्मा विभीषणो मां दशकन्धरमनुशास्ति ? । (पुनरुच्चैःस्वरम् )
आः पाप : ज्ञातिहत्यानिचुलितवदन ! भ्रातृबन्धोः स्ववंश
प्रभ्रंशस्थूललक्षश्रुतिषु मम गिरः पांशुराः किं तनोषि? । रे रे सोदर्य ! लज्जाज्वरविधुरभुजो रावणस्त्वां तितिक्षु
ालाजिह्वालधारस्त्वयि पुनरनये चन्द्रहासो नृशंसः ॥१५॥ लक्ष्मणः - अरे राक्षसापसद ! हितानुबन्धिनि बन्धौ कोऽयं शस्त्रसङ्ग्रहाग्रहः । गृहाणास्त्रम् । रणकण्डूभृतां तव दोष्णामेपोऽहमगदङ्कारः।
रावणः- अरे म्लेच्छ ! प्रगुणय चापचापलम् । सततसनिहितचन्द्रहास एवैष लङ्कापतिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org