________________
रघुविलासनाटकम्-अष्टमोऽङ्कः ।
( आकाशे) अलं संरम्भेण त्यजत समराडम्बररुजं, ___ यदर्थ क्लेशोऽयं तदभवदपन्थाः खल दृशाम् । रामः- ( ससम्भ्रमम् ) वत्स लक्ष्मण ! किमिदम् ? । लक्ष्मणः - दैवी वागियम् । रामः-किमर्थमस्माकं क्लेशः ? । लक्ष्मणः - सीतार्थम् । रामः- तत् किं सीता दृशामपन्थाः ? । लक्ष्मणः -- स्फुटं नावगच्छामि । रावणः-ग्रहस्त ! किमिदम् ? । प्रहस्तः-दैवी वागियम् । रावणः-किमर्थमस्माकं क्लेशः ? । प्रहस्तः -- सीतार्थम् । रावणः-तत् किं दृशामपन्थः । प्रहस्तः - स्फुटं नावगच्छामि ।।
( पुनराकाशे) स एवंकः श्लाघ्यो रघुपतिरसौ यस्य विरहे,
हहा हा ! वैदेही तृणमिव जह। जीवितमपि ॥ १६॥ रामः-हा प्रिये वैदेहि ! क्वासि ? देहि मे प्रतिवचनम् ( इति मूर्च्छति ।) रावणः - हा प्रिये वैदेहि ! क्वासि ? देहि मे प्रतिवचनम् । ( इति मूर्च्छति ।)
लक्ष्मणः- ( सपूकारग) सुग्रीव सुग्रीव ! हनूमन् हनूमन् ! त्वरस्व त्वरस्त्र, उपनयस्व उपनयस्व चन्दन - व्यजनादीनि ।
(प्रविश्य सुग्रीव - हनुमन्तौ चन्दनायै राममाश्वासमतः । ) प्रहस्तः - ( उच्चै स्वरम ) भो भोः पलभुजः ! त्वरध्वं त्वरध्वम् , उपनयध्वं उपनयध्वं चन्दन - व्यजनादीनि ।
(प्रविश्व शुकनाशः चन्दनाधे रावणमाश्वासयति । ) रामः - (चेतनामास्वाय सुग्रीवं प्रति ) अलमतः परं समरसंरम्भेण । उपनयत मां शिविरसन्निवेशं येन जानकीप्रेमानुरूपमाचरामि ।
सुग्रीवः- देव ! कोऽयमनिर्णीतपरमार्थे वस्तुनि शिवेतरोपक्रमः ? । रावणः-(चेतनामास्थाय ) शुकनास ! समादिश त्रिजटाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org