________________
७८
महाकविश्रीरामचन्द्रसूरिरचितं शुकनाशः-देन ! किमादिशामि।
(प्रविश्य सम्भ्रान्ता) त्रिजटा-महा! मुसिद म्हि मुसिद म्हि । दाणि गयणमग्गे हविय हदाखेहि सुरवइणो पाइकेहिं 'रावणेण रामो वावादिदो' त्ति पवादो कदो, तदो तं सुणिय सीदा पाणेहिं परिचत्ता । रावणः- ( साक्षेपम् ) आः! शक्रस्य पदातिभिः किमिदमनुष्ठितम् ? ।
(त्रिजटा उच्चैःस्वरं प्रलपति ।) ( रामः चापमपहाय मूर्छामभिनयति ।)
( नेपथ्ये) अलमलं विषादेन किमपि कूटनाटकमिदम् । न नाम पाकशासनः साहसमिदमनुतिष्ठति ।
सुग्रीवः - देव ! उपपन्नमाह विभीषणः ।
रावणः- ( सरोषम् ) अमुना पदातिदुर्विलसितेन भूयोऽपि शुनासीरः शिक्षामर्हति । यदि वा शवरस्यास्य विरहे वैदेही जीवितं जहौ तदयमेव प्रथमं संहारमर्हति ।
(रामं प्रति सगर्वम् ) अनायुधकरं परं सुरपुरन्ध्रिहास्यद्रुहो,
निहन्तुमधिसङ्गरं न खलु शिक्षिता बाहवः । धनुः स्मर धनुः स्मर द्रुतमतः परं प्राणित
प्रथां न तव मृष्यते शबरडिम्भ रे ! रावणः ॥ १७ ॥ रामः-(साक्षेपम् ) रे रे क्रव्यादखेट! प्रतिसुभटघटागर्वसर्वकषाणां,
काकुस्थानां समीके प्रहरणविरहं बाहवः किं श्रयन्ते ?। एते सन्त्येव देवद्विरदमदमुषः कुम्भकर्णस्य मैत्र्या, __ लब्धास्वादाः पलादास्मृजि तव रुधिरं पातुमुत्काः पृषत्काः ॥१८॥
रावणः-( अपवार्य प्रहस्तं प्रति) कथं वैदेहीविपत्तिश्रवणेऽपि तावानेवास्य शबरस्य सम्प्रहारहेवाकः ? ।
प्रहस्तः-देव ! शोकशङ्कुभिरभेद्यं क्षात्रं तेजः कूटकोटिभिरपि न वैधुर्यमधिगच्छति ।
१) भर्तः ! मुषिताऽस्मि मुषिताऽस्मि । इदानीं गगनमार्गे भूत्वा हताशैः सुरपतेः पादात्यैः 'राषणेन रामो व्यापादितः' इति प्रवादः कृतः, ततः तं श्रुत्वा सीता प्राणैः परित्यक्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org