________________
रघुविलास नाटकम् - अष्टमोऽङ्कः ।
रावणः - त्रिजटे ! व्रज त्वम् । यावद् वयं शबरं व्यापाद्य समागच्छामस्तावद् विदेहदुहितुरनलसंस्कारो रक्षणीयः । वयमपि तया सह चितामारोक्ष्यामः । ( त्रिजटा निष्क्रान्ता । )
रामः - हनूमन् ! सीताविपत्तिपरमार्थं कथमपि विज्ञाय त्वरिततरं विज्ञपय ।
( हनूमान् निष्क्रान्तः । )
प्रहस्तः- शुकनाश ! आर्यमाल्यवन्तं विज्ञपय, यथा सारणोपदिष्टं कर्म त्वरिततरमनुष्ठेयम् ।
( शुकनाशः परिक्रामति । )
रावणः - ( चन्द्रहासमादाय )
रुन्धानो व्योमरन्धं स्फुरदनलकणैर्दक्षिणेर्माणि मर्माण्यातन्वानस्त्रिलोकीवलयभुजभृतां दुर्निवारैः प्रहारैः । पायं पायं वनान्तश्चररुधिरजलान्यस्तु धाराकरालः,
कल्पान्तभ्रान्तकालभ्भ्रुकुटिसहचरश्चन्द्रहासो ममासिः ॥ १९ ॥ ( रामं प्रति ) अरे ! एहि विमर्दक्षमां क्षमामवतरामः । ( इति तथा कुर्वन्ति ) शुकनाशः - कथमयमार्यो माल्यवान् सारणच ? |
( ततः प्रविशति माल्यवान् सारणश्च | )
माल्यवान् - वत्स ! विरश्विः संसोढा न च चिरमपारस्य महसो,
७९
न च म्लानेः पात्रं समरभुवि लङ्कापरिवृढः । तदेतन्निःशङ्कं द्वयमपि न विद्मः पुनरिदं,
विरिञ्चिः साधीयान् किमयमुत लङ्कापरिवृढः ? ॥ २० ॥ तदवगच्छ - वचनकलहादायुधकलहमधिरूढो न वा लङ्कापतिः ? । शुकनासः - आयुध कलहमधिरूढ एव देवः । अनुष्ठीयतां सारणोपदिष्टो
देवादेशः ।
माल्यवान् -( सत्वरम् ) सारण ! गच्छ तर्हि चक्रपादं सर्पकर्ण च ब्रूहि, यथासमयोऽयं भवताम् ।
Jain Education International
( सारणो निष्क्रान्तः । )
शुकनासः - आर्य ! आयुधखुरलीदुर्ललितयो राम-रावणयोः कस्य विजयं वितर्कयसि ? |
For Private & Personal Use Only
www.jainelibrary.org