________________
रघुविलासनाटकम् - सप्तमोऽङ्कः ।
७१ रावणः- देवि ! किमिदमश्रुतचरं नः श्रावयसि ? ।
मयः - ( सबाप्पम् ) देव! ह्यस्तने समरसंरम्भे कुमारः शक्रजित् कुम्भकर्णश्च वनेचर - कपिभिनियम्य ( इत्यक्तावधोमुखीभवति ।)
रावणःहुं शक्रः स जितो जितो धृतधृतः कैलाशशैलोऽम्बरे,
क्रान्तं क्रान्तमिदं जगत् प्रतिभटप्रावासिकैयाहुभिः । येयं सम्प्रति बन्धुवन्धनकथा लङ्कापतेर्जीवतः, कर्णषु प्रथते किमेकमनयाऽगीतं न विस्फूर्जितम् ? ॥ ३५॥
(पुनः साक्षेपम् ) यानां संवृणु देवि ! दुर्दमधुराधुर्यस्य लङ्कापते
र्वीरस्यासि सर्मिणी करुणया किं बान्धवद्वेषिणी? । ज्वालामांसलचन्द्रहासकुलिशव्यालीढकण्ठस्थलादुत्कृत्तस्य वनान्तचारिशिरसः सन्धि विधातास्महे ॥ ३६॥
(पुनरूर्द्धमवलोक्य साशङ्कम् ) केशाकेशि किमम्बरे दिविषदां स्थानार्थिनां? मागधैः,
प्रेर्यन्ते किमभिरमार्थमधिकं रक्षश्चमूचारिणः ? । आश्वीयस्य च हास्तिकस्य च रजः काष्ठाः स्तृणीते कथं ?,
कस्मात् कावचिकान्यहम्प्रथमिकां साङ्ग्रामिकीं बिभ्रति ? ॥ ३७॥ ( पुनः साक्षेपम् ) आर्य ! किमिदम् ? । मयः- देव ! शबरवर्गीयाणामवस्कन्द इव लक्ष्यते ।
( नेपथ्ये) बन्दीवीरास्त्रस्यत रे ! रणं सुरवधूनेत्रप्रियम्भावुकः,
स्कन्धाभोगभयङ्करो रघुपतिः सोऽयं स्वयं कामति । यद्वाणाशनिदक्षिणेमधमनीनिष्ठयतरक्तारुणं,
भूयोऽपि ग्लपयाञ्चकार मरुतस्तत्कौम्भकर्णं वपुः ॥ ३८ ॥ सीता-( सहर्षम् ) तियंडे अजउत्तवन्नणासवणेण चिरा निव्वाविद म्हि । रावणः - ( सक्रोधम् ) चक्रं चक्रमरे!
१) येयं बन्धु-तनूजबन्धन उ । याऽऽरम्भं प्रनि बन्धुबन्धन नाद.। २) त्रिजटे! आर्यपुत्र वर्णनाश्रवणेन चिराद् निर्धापिताऽस्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org