Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 86
________________ रघुविलासनाटकम् - सप्तमोऽङ्कः । उद्बुद्धवाद्वैकभिदेलिमबाहुदण्ड खण्डोचितं किमपि वृत्तमुदादरस्व ॥ ३०॥ मन्दोदरी-( रावणस्य पादौ शिरसि निधाय सदैन्यम् ) अजउत्त ! जं तादो विनवेदि तं पडिवजसु । [रावणः-] देवि ! मुश्च मुञ्च, प्रतिपन्नस्ते कदाग्रहः । ( पुनः सोपशमम् ) कस्कोऽत्र ? ( प्रविश्य) कुन्दः --आदिशतु देवः।। रावण: व्रज कुन्द ! सन्धिघटनाहेतोः ( पुनः सरोपं चन्द्रहासं परामृश्य ) अरे ! मां शठः, शौर्यात् कोऽश्लथयत् ? ( मयादयः सर्वे सभयं तिरोदधते।) रावणः - ( पार्श्वतोऽवलोक्य ) कथं न सविधे कोऽप्यस्त्यहं केवलः ?। ( सवितर्कम् ) कोऽहं ? (विनिश्चित्य ) हुं ननु रावणः ( सविमर्शम् ) किमिदम् ? ( विनिश्चित्य) आः ! सन्धापरैः ( सगर्वम् ) रावणः सन्धत्ते द्विषतः ( सनिर्वेदम् ) प्रतीच्छति न किं कासन् प्रियां जानकीम् ? ॥ ३१ ॥ ( पुनः कुन्दं प्रति ) यावदुपलिङ्गान्तरं किमपि नोपतिष्ठते तावदस्मदाज्ञया वनेचरमिदं समादिश । ५) आर्यपुत्र ! यत् तातो विज्ञपयति तत् प्रतिपद्यस्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102