Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 84
________________ रघुविलासनाटकम् - सप्तमोऽङ्कः । मालती-भट्टिणि ! मा उत्तम्म, जं य्येव भए चिन्नत्तं तं य्येव पमाणं । एदं उण किं पि भट्टिणो कवडनाडयं । रावण :- कोऽत्र भोः ! ? । (प्रविश्य ) प्रहस्त :-आदिशतु देवः । रावणः-( साक्षेपम् ) प्रहस्त ! दुरात्मानं चन्द्रं नियम्याऽस्मदन्तिकमुपनय । (प्रहस्तो निष्क्रान्तः ।) ( ततः प्रविशति नियन्त्रितभुजश्चन्द्रः ।) सीता- ( सबाप्पम ) रघुकुलदेवदाओ ! चंदसरीरयम्मि रक्खं करेध । रावणः-(स्वगतम् ) सुसदृशीं चन्द्रभूमिकां शुकनाशो गृहीतवान् । (प्रकाशम्) अरे मुखर ! किंनिमित्तमलीकां शबरशक्तिनिर्गमकथां प्रथितवानसि । चन्द्रः-- ( सकम्पम् ) देव! वनचरविपत्तिविधुरः कुमारो विभीषणस्तामिमां किंवदन्ती मामुपचर्य कारितवान् । मयः - ( मन्दोदरी प्रति ) वत्से ! पश्यन्त्यसि निजस्थ प्रेयसः कपटनाटकम् । रावणः - ( साक्षेपम् । अरे चन्द्र ! प्रांतहतोऽसि । वर्षीयसि जगदेकमल्ले दशकन्धरे बन्धी कुतः कुमारो विधुरः ।। ( प्रविश्य राक्षसः - भट्टा ! कुमारविभीसणपसिदो सुकेऊ दारे चिट्ठदि । रावणः-शीघ्रं प्रवेशय । ( राक्षसो निष्क्रान्तः ।। (प्रविश्य सुकेतुः प्रणमति ।) रावणः-सुकेतो! कल्याणवान वत्सो विभीषणः ।। सुकेतुः- देवस्य प्रतापेन । ( पुनः सविनयम् ) इदं बिभीषणकुमारो लङ्कापतये विज्ञपयति सेवाश्राद्धसुपर्वकोटिमुकुटप्रग्रीववैहासिका, ग्लानिं वैनयिकस्य कौणपपतेः पादाः सहन्तां मयि । येषां सङ्गरसंयतप्रियतमत्राणाय याञ्चानम त्पौलोमीतिलकोत्पतन्मृगमदो रक्षामषीलाञ्छनम् ॥ २३ ॥ १) भट्टिनि! मा उत्ताम्य । यदेव मया विज्ञप्तं तदेव प्रमाणम् । एतत् पुनः किमपि भर्तुः कपट. नाटकम् । २) रघुकुलदेवताः ! चन्द्रशरीरे रक्षां कुरुत। ३) भतः ! कुमारबिभीषणप्रेषितः सुकेतुः द्वारे तिष्ठति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102