Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलासनाटकम् - पञ्चमोऽङ्कः। ( रावणो विमृश्य वैनतेयस्य कर्ण एवमेव । )
(वैनतेयो निष्क्रान्तः ।)
(प्रविश्य चन्द्रराशिः प्रणमति । ) रावणः-( साक्षेपम् ) अरे बलीमुख ! किमेष लङ्कामधिगतवानसि ? । चन्द्रराशिः - इदमादिशन्ति तुभ्यं रामभद्रपादाः । रावणः- ( चन्द्रहासं परामृश्य सखेदम् ) कोऽप्यस्ति काननचरः स च रावणाय,
क्रुद्धः समादिशति दतमुखेन कृत्यम् । श्रीचन्द्रहास ! मुषितेन्द्रवधूविलास !
दृष्टस्त्वया हतविरिञ्चिविचारसारः ॥ २४ ॥ चन्द्रराशि:तस्य प्रियां दशरथस्य वधूं विदेह
भर्तुः सुतामभिरिरंसु पिशाचतोकम् । श्रीचन्द्रहास ! मुषितेन्द्रवधूविलास ! ___ दृष्टस्त्वया हतविरिञ्चिविचारसारः ॥ २५॥ रावणः-(सक्रोधम् ) अरे ! पुनरेवेदं व्याहर।
( चन्द्रराशिस्तदेव पठति ।) रावणःहित्वा वैनयिकं प्रयात रिपुतां, पुष्णीत रोधं पुरे,
वाचालास्त, विधत्त दतललितं, स्वेच्छाऽपराधेषु वः। सर्वस्यापि विकर्मणो दिविषदां कौपीनदीक्षागुरुः, प्रायश्चित्तमसावसिर्घटयिता श्रीचन्द्रहासो रणे ॥ २६ ॥
(प्रविश्य) राक्षसः-भट्टा! हणुअंतपिया पवणंजए दारि चिढदि । रावणः- शीघ्रं प्रवेशय ।
( राक्षसो निष्क्रान्तः ।)
(प्रविश्य पवनञ्जयः प्रणमति ।) चन्द्रराशि:-(प्रत्यभिज्ञाय स्वगतम् ) हनूमत्पिता रावणमनुसरतीति महदरिष्टं वानरवंशस्थ ।
पवनञ्जयः-( सदैन्यम् ) १) किमर्थ उ० । २) भर्तः ! हनूमपिता पवनञ्जयः द्वारि तिष्ठति ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/651442d9afdefcc17eec6e7fe2e779106ff94f67e2cec0d832fd7de42c85d4cf.jpg)
Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102