Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 68
________________ रघुविलासनाटकम् - पञ्चमोऽङ्कः । रावणः- फलितं तर्हि सुमेधसः सुग्रीवस्य वनेचराराधनव्रतम् । (पुनः सोपहासं चन्द्रराशिं प्रति ) इदं विज्ञपय गत्वा जानकीजानेः, यथा-उपनेष्यामहे भवत्प्रेमाकुलां सीताम् , असोढारः खरकुलनिवापप्रतिभुवां शराणां वयम् । (चन्द्रराशिनिप्कान्तः ।) रावणः-( कर्णं दत्त्वा ससम्भ्रमम् ) लङ्कायाः किमु रे ! बहिः कलकलः ? प्रतीहारः प्राप्तो रिपुः रावणः -( सावज्ञम् ) किं शुना शीरः ? कोऽप्यपरो? प्रतीहारः न काननचरः रावणः-( सलजम् ) हुँ मा पुरो व्याहृथाः। (पुनः सविनयम् ) दोर्दण्डाः ! समुपस्थितं किमपि वः पर्व त्रपापिच्छिलं, स्मर्तव्योऽस्मदनुग्रहेण विजयो नैन्द्रः क्षणं सम्प्रति ॥ ३३ ॥ (प्रविश्य सम्भ्रान्तः) शुकनाशः-देव! राम - कुम्भकर्णयोः शक्रजित् -सुग्रीवयोरपरेषां रक्षसां वनौकसां च महान् समरसंरम्भो वर्तते । रावणः - ( सरोषम् ) किमद्यापि प्रहस्तः पुष्पकं न प्रगुणयति ? । (नेपथ्ये) इदं प्रगुणमेव पुष्पकम् । आरोहतु देवः । रावणः-(प्रतीहारं प्रति ) दर्शय मार्गम् , येन समराय संरम्भामहे । ( इति निष्क्रान्ताः सर्वे ।) ॥ पञ्चमोऽङ्कः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102