________________
रघुविलासनाटकम् - पञ्चमोऽङ्कः । रावणः- फलितं तर्हि सुमेधसः सुग्रीवस्य वनेचराराधनव्रतम् । (पुनः सोपहासं चन्द्रराशिं प्रति ) इदं विज्ञपय गत्वा जानकीजानेः, यथा-उपनेष्यामहे भवत्प्रेमाकुलां सीताम् , असोढारः खरकुलनिवापप्रतिभुवां शराणां वयम् ।
(चन्द्रराशिनिप्कान्तः ।) रावणः-( कर्णं दत्त्वा ससम्भ्रमम् ) लङ्कायाः किमु रे ! बहिः कलकलः ? प्रतीहारः
प्राप्तो रिपुः रावणः -( सावज्ञम् )
किं शुना
शीरः ? कोऽप्यपरो? प्रतीहारः
न काननचरः रावणः-( सलजम् )
हुँ मा पुरो व्याहृथाः।
(पुनः सविनयम् ) दोर्दण्डाः ! समुपस्थितं किमपि वः पर्व त्रपापिच्छिलं, स्मर्तव्योऽस्मदनुग्रहेण विजयो नैन्द्रः क्षणं सम्प्रति ॥ ३३ ॥
(प्रविश्य सम्भ्रान्तः) शुकनाशः-देव! राम - कुम्भकर्णयोः शक्रजित् -सुग्रीवयोरपरेषां रक्षसां वनौकसां च महान् समरसंरम्भो वर्तते ।
रावणः - ( सरोषम् ) किमद्यापि प्रहस्तः पुष्पकं न प्रगुणयति ? ।
(नेपथ्ये)
इदं प्रगुणमेव पुष्पकम् । आरोहतु देवः । रावणः-(प्रतीहारं प्रति ) दर्शय मार्गम् , येन समराय संरम्भामहे ।
( इति निष्क्रान्ताः सर्वे ।)
॥ पञ्चमोऽङ्कः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org