________________
५०
महाकविश्रीरामचन्द्र सरिरचितं सीता- मह वल्हेण दसकंधरेण एस पेसिदो? । रावणः-(विहस्य ) तव वल्लभेन बनेचरेणैप प्रेपितः । सीता-पंडिहदममंगलं ।
कलकण्ठः - अभिजात्येन वनेचरो वल्लभः । परमानुरागिणा हृदयेन पुनर्वाल्यात् प्रभृति लङ्कापतिरेव देव्या वल्लभः ।
सीता-(चन्द्रराशिं प्रति ) वत्स! कीस रामभदो अत्ताणयं मह कारणे संतावेदि। मए बालकालादो परूढेहिं मणोरहसदेहिं अजउत्तो लंकाहिवदी पाविदो। अओ परं सुविणे वि न अन्नं अहिलसामि । ता गच्छ तुमं । संबोहिय पडिनियत्तावेहि रामभदं ।
। चन्द्रराशि:-(स्वगतम् ) अपि नाम जानकी पण्याङ्गनाचरितमाचरेत ? । व्यक्तमिदं कैतवं किमपि । (प्रकाशम् ) न खलु त्वं जनकस्य तनया यदि रामभद्रमपहाय रावणमभिलपसि ? ।
सीता-आम चंदरासे ! आम, नाहं जण यस्स तणया। अजउत्तस्य पसादेण अउरवं मे दिव्वं सरीरं जादं ।
रावणः- अस्थानमिदमवरोधबधूनाम् । व्रजत यूयमाक्रीडसौधतलम् । प्राप्ता एवं वयमेते ।
( सीता सपरिकरा निष्क्रान्ता । ) रावणः-(सोपहासम् ) चन्द्रराशे! जानकीजानिर्देवो रामभद्रः किमपरमादिशति ?।
चन्द्रराशिः - ( सावष्टम्भम् ) जानकीजानिर्देवो रामभद्र इदमपरमादिशति । उदस्तः कैलाशो यदथ, शतमन्योधपहतः
स्मयः सङ्ग्रामे यत् , तदिह ननु साक्षी कथय कः ? । प्रतीमो निःशेषं खरकुलनिवापप्रतिभुवां शराणां रे रक्षस्त्वमसि परिसोढा यदि युधि ॥ ३२॥
(प्रविश्य) प्रतीहारः- देव ! प्रयातः कुमारकुम्भकर्णः किष्किन्धाधिराज्ये पवनञ्जयमभिषेक्तुम् ।
१) मम वल्लभेन दशकन्धरेण एष प्रेषितः ?। २) प्रतिहतममङ्गलम्। ३) वल्प ! कस्माद रामभद्रः आत्मानं मम कारण सन्तापयति ?। मया बाल्यकालात प्ररूढमनोरथशनैः आर्यपुत्रो लक्षाधिपतिः प्राप्तः । अतः परं स्वप्नेऽपि न अन्य अभिलपामि । तद् गच्छ त्वम् । सम्बोध्य प्रतिनिवर्तय रामभद्रम् । ४) आम चन्द्रराशे! आमम्, नाहं जनकस्य तनया । आर्यपुत्रस्य प्रसादेन अपूर्व मे दिव्यं शरीरं जातम् । ५) चन्द्रराशे ! अर्पयिष्यामो जानकीम् । जानकी उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org