________________
रघुविलासनाटकम् - पञ्चमोऽङ्कः ।
४९ सन्तु म्लेच्छशिशोः सवानरचमूचक्रस्य पण्यस्त्रियां,
लङ्काक्रीडगृहेषु सीधुसलिलरापानकेलिक्रमाः । पौलस्त्यस्य शिरोभिरस्तु दशभिः सौमित्रिपत्रिक्षतः, किष्किन्धापुरगोपुरेषु विगलद्रक्षोरणं तोरणम् ॥ ३०॥
(प्रविश्य ) चेटी-भट्टा! सीदादेवी विनवेदि। रावणः-( ससम्भ्रमम् ) मालतिक! किमादिशति देवी ? ।
चेटी-नै सक्केमि विरहहुयाससंतावं सहिदुं । तुरिदं समागच्छिय निव्वावेदु मे सरीरलडिं अजउत्तो।
चन्द्रराशिः - ( सखेदमात्मगता ) केयमुत्पातपरम्परा ? । यदि रावणविरहानलाभितापं [सोढ]मनलम्भविष्णुर्जानकी, वृथा तर्हि रामस्य समरसंरम्भः । रावण:-(सादरम् ) एते वयमागता एवेति गत्वा ज्ञापय देव्यै ।
(चेटी निष्क्रान्ता ।) रावणः - ( सौत्सुक्यगिव ) चन्द्रराशे ! अग्मद्विरहकातरा चिरं परिसोढुमनलम्भूष्णुर्मान्मथीं व्यथां मैथिली । संवृणु वचनरचनाप्रागल्भीम् । शुश्रूपवो वयं वैदेहीचरणाम्भोजद्वयीम् ।
( नेपथ्ये)
इत इतो देवी । रावणः- ( ससम्भ्रमम् ) कथं जानकी पादविहारक्लेशमनुभवति ? ।
आरोहन्ति दुरारोहं मार्गमुज्झन्ति दूरतः।
योषितः कामिनामर्थे शाखिनामिव वीरुधः ॥३१॥ ( ततः प्रविशति त्रिजटादत्तहस्ताबलावा सीता कलकण्टप्रभृतिकश्च परिवारः । ) कलकण्ठ:-- इत इतो देवी । रावणः -( ससम्भ्रममुत्थाय ) देवि! कोऽयमननुभूतपूर्वः पादविहारक्लेशोपद्रवः । सीता-(सरोपम् ) अजउत्त! सुहिदो सि, न याणासि विरहानलपीडं । रावणः-सिंहासन तावदलांड्रयताम् ।
( सीता रावणस्य सिंहासनार्द्ध समुपविशति ।) रावणः-देवि ! तव वल्लभप्रेषितेनामुना चन्द्रराशिना कालक्षेपमादधानेन वयमपराधिनः कृताः ।
१) भर्तः ! सीतादेवी विज्ञपयति । २) न शक्नोमि विरहहुताशसन्तापं सोढुम् । त्वरितं समागत्य निर्वापयतु मे शरीरयष्टिं आर्यपुत्रः । ३) आर्यपुत्र ! सुखितोऽसि, न जानासि बिरहानलपीडाम् ।
रघु० ना० .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org