________________
महाकविश्रीरामचन्द्रसरिरचितं यद् भग्नं विपिन, धनुर्द्धरकलादक्षो यदक्षो हतः,
शिक्षा लम्भयतः क्षपाचरपतेर्यन्मूर्ध्नि दत्तं पदम् । यद् वेश्मानि पर शतानि शिशुना क्षुण्णानि कापेयतः,
तत् क्षन्तव्यमशेषमेष पुरतस्ते देव ! बद्धोऽञ्जलिः ॥ २७॥ कलकण्ठः- पवनस्य सेवामनुस्मरता देवेन हनुमतोऽपराधवैशसं विस्मरणीयम् । रावणः- अनभिज्ञा वयं बाल्यचापल्यप्रभवानां पदातिपृथुकदुर्ललितानाम् । पवनञ्जयः-प्रसीदतु देवः ।।
रावणः- गृहाण प्रसादम् । ( पुनः प्रतीहारं प्रति) वराहतुण्ड ! मदाज्ञया समादिश कुमारं कुम्भकर्णम् , यथा-पवनञ्जयं किष्किन्धाधिराज्ये त्वरिततरमभिषिञ्च ।
पवनञ्जयः-देव ! महाप्रसादः । ( इत्यभिधाय सप्रतीहारो निष्क्रान्तः । )
चन्द्रराशि:-(सभयमात्मगतम् ) किमिदं सुग्रीवसाम्राज्यस्थ महदरिष्टमुपस्थितम् ? । न नाम किमप्यसाध्यं कुम्भकर्णपराक्रमस्य । तदर्थं त्वरिततरं गत्वा कपिकेतवे विज्ञपयामि । रावणः- ( सोपहासम् ) महावीरतनय ! किमादिशन्ति मह्यं रामभद्रपादाः ।
(पुनर्विमृश्य कलकण्ठस्य कर्णे एवमेव । )
(कलकण्ठो निष्क्रान्तः ।) चन्द्रराशिः - ( स्वगतम् ) किष्किन्धाधिराज्यस्य यद् भाव्यं तद् भवतु । अवष्टम्भत्यजनं पुनः कपिकुलं मलिनयति । (प्रकाशम् ) इदमादिशन्ति तुभ्यं रामभद्रपादाःरक्षोवंशभुवामकृत्यकरणं वेषो न दोषस्ततः,
सत्यं ते वयमन्यदारहरणं नानौचितीं ब्रूमहे । सीतां मुश्च, शराः खरान्वयमुषो विश्रान्तिमातन्वता
मस्तु स्वस्ति, निशाचरेषु वहृतां मन्दोदरी मण्डनम् ॥ २८ ॥ रावणःअस्तु स्वस्ति, निशाचरेषु वहतां मन्दोदरी मण्डनं,
वैदेहीपरिरम्भनिर्भरभुजो धत्तां मुदं रावणः । सन्तु म्लेच्छशिशोः सवानरचमूचक्रस्य रक्तासवै
लङ्काक्रीडगृहेषु पङ्कजदृशामापानकेलिक्रमाः ॥ २९ ॥ चन्द्रराशि:-(साक्षेपम् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org