Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 69
________________ [॥ षष्ठोऽङ्कः ॥] ( ततः प्रविशति सुपेणः । ) सुषेणः - भो भोः प्लवङ्गमसैन्यनिवासिनः किङ्कराः ! प्रवर्त्यन्तां मङ्गलानि । प्रसाध्यन्तां तोरणानि । सुभटकुञ्जरस्य रघुपतेः पराक्रमातिशयः कोऽपि वर्तते ? । ( नेपश्ये इदमखिलमनुतिष्ठामः । सुषेणः-तर्हि जाम्बवते विज्ञपयामि । ( इति परिकामति । ) (ततः प्रविशति जाम्बवान चन्द्रराशिश्च ।) जाम्बवान् - समाकर्णितपूर्वया कृतमपरया कथया ?, कथय तावद् भवन्तमुपलभ्य प्रथमं किमजनि रजनिचरचक्रवर्तिनः ? । चन्द्रराशि:माकूतं किमर्पि, प्रदीप्तमपरं, दोलायितं किञ्चन, स्तब्धं किञ्चन, किञ्चन प्रहसितं, किञ्चित्रपापांसुरम् । किञ्चिद्विस्मितमन्यदुन्नमिवाक किञ्चित् , किमप्युत्सुकं, ___ मैं व्यालोक्य दशाऽपि रावणमुखान्याप्तानि भिन्नां स्थितिम् ॥१॥ सुषेणः-आर्य ! वर्द्धसे, पाशैर्नियम्य सङ्ग्रहीतो रामभद्रेण कुम्भकर्णः । जाम्बवान-( ससम्भ्रमम् ) पाशैनियम्य सङ्ग्रहीतो रामभद्रेण कुम्भकर्णः ! । सुषेणः - अथ किम् ?। जाम्बवान् -( सहर्षम् ) स एप किष्किन्धाधिराज्येऽभिषिक्तः पवनञ्जयः कुम्भकर्णेन । सेयं रावणमनुसृतवती सीता । चन्द्रराशिः-आर्य! सर्वमिदं पवनञ्जय - सीताविजृम्भितं दशकण्ठकपटं मामादिष्टं विभीपणेन । यथा-पवनञ्जयरूपं चैनतेयः कृतवान , त्रिजटानुचरी मालतिका पुनः सीतारूपं विधृतवती । जाम्बवान् - सुपेण ! पुनरपि समरोदन्तं कमप्यानय । (सुषेणो निष्क्रान्तः ।) (प्रविश्य ) वानरः- आर्य ! वर्द्धसे, प्रहारपतितः शक्रजिद् देवेन कपिकेतुना सङ्ग्रहीतः। जाम्बवान् - अवसिता तर्हि सुभटकथा निशाचरेषु । ( पुनः साशङ्कम् ) किमिति प्रमोदावसरे वामं चक्षुः स्फुरति ? । * मामालोक्य उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102