________________
रघुविलासनाटकम् - पञ्चमोऽङ्कः । कियदिदमिति बुढ्या दर्पकण्डूलबाहुः,
सुरजयकथयाऽपि वीडमालम्बते यः। मनुजभुजकलाभिर्भाप्यते सोऽपि लङ्कापतिरहह ! विपाकः कर्मणां कोऽप्यचिन्त्यः ॥१८॥
(पुनः सवितर्कम् ) श्लाघ्यः सैषं यदर्थमेवमनिशं सीता परिक्लाम्यति,
ऋरस्य प्रणयादमुष्य खल सा नास्मभ्यमुत्ताम्यति । व्यारोहत्परितोष-रोषविकसद्रोमाञ्चसान्द्रीभव
होष्णां पश्य वनेचरः कथमभूद् वन्द्यश्च निन्द्यश्च नः ? ॥ १९ ॥ मारीचः- (प्रणम्य ) देव ! भवतु सफलप्रार्थनः कुमारो विभीषणः । मुच्यतां वैदेही । उपशाम्यन्तु सवनौकसो वनचारिणः ।
रावणः- (सरोपम् ) इदमपरमार्यस्य विश्रसालीलायितम् । रावणः खल्वहमनास्पदं सवनौकसां वनेचरडिम्भानां पराक्रमस्य ।।
विभीषणः-- ( सखेदम् ) डिम्भत्वं वनचारिणोः खरकुलात् प्रत्येति कोऽन्यस्तयो
ाली यं विनयं व्यधत्त समरे तत्राब्धयः साक्षिणः। पाया मौलिकिरीटकुट्टनमहं देवः स्वयं दृष्टवान्,
भ्रातः ! शान्तिमुपैहि सान्त्वय नय-स्थामोद्धरौ तौ नरौ ॥२०॥
रावणः - (सरोपम् ) अरे कुलाङ्गार! प्रतिपक्षचार! प्रथितोपहास! बान्धवाभास! मर्मोद्धट्टनाभिर्दशकन्धरमुल्लण्ठयसि ? । एप ते चन्द्रहासेन मूर्धानं पातयामि ।
( इति सिंहासनादुत्थानं नाटयति ।) मारीचः-(ससम्भ्रमम् ) देव ! किमिदम् ? । कोऽयं कनीयसि भ्रातरि चन्द्रहासपरामर्शप्रयासविप्लवः ।
कलकण्ठः-देव ! सिंहासनमलकियताम् ।
रावण:-( उपविश्य ) अरे बान्धवाधम ! सत्वरं शबरमनुसर । मास्म लङ्कायामतः परं तिष्ठ ।
विभीषणः-न भाव्यमन्यथा भवति, तदहं रक्षोराजन्यबीजरक्षार्थ राममनुसरामि । (इति विचिन्त्य निष्क्रान्तः ।)
रावणः-(साक्षेपम् ) आर्य ! त्वमपि स्खं नियोगमशून्यं कुरु । कुन्द ! प्रहस्तमाकारय।
१) सुरविजयकथाभिीड उ०। २) सैव उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org