________________
महाकविश्रीरामचन्द्रसूरिरचितं विभीषणः-देव ! निर्व्याजवीरव्रताम्भःप्रवद्धिता कीर्तिप्रतानिनी किमर्थं शिरसाममङ्गलाशंसनकुलिशेन निर्मूलमुन्मूल्यते ? ।
रावणःसौखप्रसुप्तिकविधौ धिषणो नदीष्णः,
सौनातिकः स किल दैत्यमहत्तरश्च । लालाटिकास्तदपरे ग्रहराशि-तारा, ___ यस्याप्रियङ्करममुष्य किमस्तु मूओम् ? ॥ १४ ॥ अपि च वत्स ! विचित्राभिप्रायो जनःकैलासोद्धरणं तथा न, न तथा दोपहारो हरे
नौप्युत्कन्धरहैहयेश्वरभुजादम्भोलिभङ्गस्तथा । सीताप्रेमविसंस्थुलो दशमुखः स्वैर्मूभिर्मेदिनी
खण्डं मण्डितवान् तदेतदधिकं की] यथा भाति नः ॥ १५॥ कलकण्ठः-सर्वकर्माणबुद्धेर्देवस्य न नाम परैः किमप्युपदेष्टव्यमस्ति, किन्तु रिपुपराक्रमेण चमत्कृतहृदयः कुमारः पुनः पुनरेवं देवं विज्ञपयति ।।
रावणः - ( साक्षेपम् ) इत्थं किमिदमरावणोचितं विपनयसि ? । ममापि नाम दशकन्धरस्य रिपवः ? ।
अम्भोदाः! सप्तकृत्वः स्थगयत निखिलं मण्डलं चण्डभानो
देवः श्रीराक्षसेन्द्रो न खलु विषहते पादसंस्पर्शमेषः। इत्थं यस्य प्रयाणे तुमुलयति दिशः स्वर्गिणां चाटुकार__ स्तं योद्धं यातुधानाधिपमधिमनसं कोऽभिकाङ्केत सकर्णः ॥१६॥ (पुनः सखेदम् ) यदि वा सौविदल्ल! लूनं वनेचरशिशोर्न शिरो, न गाढ
मासादितो जनकजापरिरम्भकेलिः । दम्भोलिकोण किणचन्द्रकसिध्मलानां, __ दोष्णां पुरन्दरजयेन क एष दर्पः ? ॥ १७ ॥
कुन्दः - ( सविनयम् ) खर - दूपण - त्रिशिरःप्राग्रहराणि चतुर्दशविद्याधरसहस्राणि भुजमात्रसहायो व्यापादयति यः स लोचने निमील्य रिपुर्देवेन विचिन्तनीयः ।
रावणः- ( सोपहासम् ) आम महाबुद्धे कुन्द ! आम, खर-दूषण - त्रिशिरःप्राग्रहराणि चतुर्दश विद्याधरसहस्राणि भुजमात्रसहायो व्यापादयति यः स लोचने निमील्य देवेन रिपुर्विचिन्तनीयः । ( पुनः सविषादम् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org