________________
रघुविलासनाटकम् - पञ्चमोऽङ्कः । एकस्यैव वनेचरस्य कपयः सर्वेऽपि यत् पत्तयो
ऽभूवन् वीरमतल्लिकाः प्रतिमुहुस्तन्मेऽन्तरुल्लिख्यते । विश्वेऽप्युत्सवहेतवो न विधयः, कालो हि वैचित्र्यभाग,
भ्रातः ! शान्तिमुपैहि, नन्दतु चिरं सोऽयं कनिष्ठो जनः ॥ ८॥ रावणः - ( साश्चर्यम् ) यद्वक्षस्तटघृष्टहृष्टरदनं कान्तं निरीक्ष्य क्षणं,
चक्षुः कोपकडारमन्यकरिणीभ्रान्त्या बभूवाऽभ्रमोः। कैलासोद्धरणवणस्थपुटितस्कन्धस्य तस्याऽऽहवे,
लङ्केन्द्रस्य भयं वयं वनचरात् सम्भाव्य रोमाञ्चिताः॥१॥ अपि च वत्स! तामेतां दधते स जिह्मगपतिः कश्चिद् द्विजिह्नः क्षमां, ___ यादः कोऽपि स कच्छपोऽथ पशवस्ते केऽपि दिग्दन्तिनः । वीराद्वैतकथां तथापि वहते नाथः क्षपाचारिणा
मित्थं यः सततं विषीदति स किं साध्यो द्विषां रावणः?॥१०॥ मारीचः-(प्रणम्य ) देव ! प्रसीद भव सर्वजनीनबुद्धि
नात्मनीनमनुतिष्ठति तुन्दिलश्रीः। वैरङ्गिकं त्रिजगतो विजहीहि कर्म,
शर्माणि संश्रयतु शाश्वतिकानि लङ्का ॥ ११ ॥ रावणः-( साहङ्कारम् ) आर्य ! मा भैषीरधिसङ्गरं वनचरं व्यापादयिष्ये, स वा
हन्यान्मां, धिगमङ्गलं, न धिगथो, व्यापत्तिरप्युत्सवः । मूर्धानः समिधः कृताः मुरजिता शस्त्रानलस्याऽऽहवे
मत्प्रेम्णा, तदिदं विदेहतनया पश्चादपि ध्यास्यति ॥ १२ ॥ बिभीषणः-( अपवार्य ) प्रतिहतममङ्गलम् , शिवतातिरस्तु प्रतिहतजगत्रयदुरिततान्तिर्देवः शान्तिर्निशाचरकुलस्य । रावणः-किश्च
वेश्मन्यायोजितो येन हरिर्मातङ्गकर्मसु ।
पौलस्त्यस्याऽऽहवे मल्लः कस्तस्याऽपूर्ववेधसः ? ॥ १३ ॥ १) °स्तटपृष्ठघृष्टरदनं उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org