SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४२ महाकविश्रीरामचन्द्रसरिरचितं विभीषणः - ( सखेदम् ) लङ्कोपरोधेऽप्यविषादिनी दशा दशाननस्य ? । भवतु तावत् । एहि समयोचितं किमपि देवं विज्ञपयामः । ( इति परिक्रामन्ति । ) (ततः प्रविशति रावणः कलकण्ठस्त्रिजटा च ।) रावणः-त्रिजटे ! सीतां प्रति निःप्रत्याशीभूतोऽस्मि । त्रिजटा-अदिचदुरा खु सीदा जाणादि सव् पि मायापयोगं । जाव सच्चकं जेव वणेयरो न विवजदि न दाव भट्टिणं अणुसरदि । रावणः आधाय सर्वसुभगां सुमेधसा वेधसा जनकतनयाम् । सामग्री न गुणानामियं मृषोद्या श्रुतिर्विहिता ॥३॥ [ कैलकण्ठः -देव! रसः कापि कचिद् गन्धो रूपं कचन सुन्दरम् । रसो गन्धश्च रूपं च नारङ्गे त्रितयं स्थितम् ॥ ४॥ चलकमलविलासाभ्यासिनी नेत्रपत्रे, दशनवसनभूमिबन्धुजीवं दुनोति । स्मरभरपरिरोहत्पाण्डिमारूढगूढ द्युतिविजितमृगाङ्का मोदते गण्डभित्तिः ॥५॥ अपि च वैदेहीपदयुगली दृष्टवती भगवती न खल लक्ष्मीः । कथमपरथा निवासप्रीतिं पङ्केरुहे कुर्यात ? ॥६॥ उपेक्ष्य लवणक्षयं, चिरमपास्य तीवं तपो, निरुध्य चपलं मनः, प्रतिनिषिध्य कर्मान्तरम् । विरञ्चिरुपदीविधौ चतुरबुद्धिरिद्वौजसं, दशास्यमुपसेवितुं घटितवान् विदेहात्मजाम् ॥ ७ ॥ बिभीषणः-( सभयम् ) देव ! [किमपि ] विज्ञपयितुकामोऽस्मि । रावणः-[विज्ञपय ] | त्रिजटे ! जानकीसपर्यासुखमनुभव । (त्रिजटा निष्क्रान्ता।। विभीषणः-( सविनयम् ) देव ! १) अतिचतुरा खलु सीता जानाति सर्वमपि मायाप्रयोगम् । यावत् सत्यमेव वनेचरो न विपद्यते न सावत् स्वामिनं अनुसरति । २)अत्रान्तरे मूलादर्शसत्वं चतुर्णवतितमं पत्रं नष्टमस्तीत्यतस्तत्स्थानपूर्तिरूद्वारानुसारेणात्र विहिताऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy